________________
७७७०७७
छत्रम्, चामरम्, ध्वजः - पताका एते प्रशस्ताः = शकुना इत्यर्थः ।
तथा लिङ्गमात्रधारी, सम्यक्संयमानुष्ठाने यत्नपरः, इन्द्रियनोइन्द्रियैर्दान्तः एते त्रयोऽपि शकुनाः । न च चारित्रपरिणामभ्रष्टस्य लिङ्गमात्रधारिणः शकुनत्वं कथं घटेतेति वाच्यम् । कलशचामरध्वजपताकादिप्रशस्तवस्तुवत् चारित्रवेषस्य शकुनत्वानपायात् ।
यथाहि चारित्रपरिणामरहितान्यपि कलशादिवस्तूनि शकुनत्वं न व्यभिचरन्ति एवं चारित्रपरिणामविरहितोऽपि साधुस्तथेति ।
ननु कलशादिषु प्रशस्तपरिणामवदप्रशस्तपरिणामोऽपि नास्ति, लिङ्गमात्रधारिणि तु अप्रशस्तपरिणामोऽस्तीति न तस्य शकुनत्वमिति चेत् तत्कि सर्पादिभक्षकाणां मयूरनकुलादीनामप्रशस्तपरिणामो नास्ति ? येन तेषां शकुनत्वं स्वीक्रियते ? यथाहि अप्रशस्तपरिणामवतामपि तेषां द्रव्यविशेषरुपत्वात् शकुनत्वं, तथैव लिङ्गमात्रधारिणोऽपि किमिति न मन्यते इति निपुणधिया निभालनीयम् ।
एते च शकुना अपशकुनाश्चोपलक्षणमात्रम्, तेनान्येऽपि ते सम्प्रदायाद्यनुरोधतो ज्ञेयाः ।
१७०७७०७०७
(६८ ) स चैवमाह रात्रौ साधूनां गमनं न कल्पते, द्विविधविराधनासम्भवात्, यत उक्तं दिवाऽपि तावत् नीयदुवारे विराहणा दुविहति । दिवाऽपि तावदयं दोषः, नीयदुवारं तमसं कोट्ठगं परिवज्जए इति वचनात् । नीचद्वारे द्विविधा विराधना सतमस्कत्वात्, आस्तां तावद् रात्रौ, एष च धर्मश्रद्धया नेच्छति । पुनश्च तस्य प्रज्ञापना- प्ररूपणा क्रियते । तत्र रात्रिगमने बहवो गुणा दृश्यन्ते बालवृद्धादयः सुखेन गच्छन्ति रात्रौ, न तृष बाध्यन्ते । ।। अथ तथाऽपि नेच्छति गमनम् द्वितीयस्तस्य दीयते - तदर्थं मुच्यते इति । उपधिस्तस्य दीयते जीर्णः, तदीयश्च शोभनो गृह्यते इति, मा भूत्तत्पार्श्वे स्थितमुपधि स्तेनका आच्छेत्स्यन्ति । (ओ.नि. भा. ९२ )
ជីភូមិគីភីជីជី(555555555555e5To
चन्द्र. खग्गूडो नामापरिणतः, स चोत्सर्गैकरुचितया रात्रौ विहारं सर्वथा निषिध्यति, एतच्च न युक्तम्, अपवादतो रात्रिगमने बहुगुणसद्भावात् । तदेतत्सर्वमत्र निगदितम्, प्रायः
QQIN
सिद्धान्त रहस्य बिन्दुः
२०७०९७०७ ९९