________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
अत्रोच्यते । स्वहितस्य परहितस्योभयस्यानुपेक्षणीयत्वात्कश्चिन्मध्यमः पन्थाः गवेषणीयः, स चायं परिस्फुरत्यस्माकं । श्रीसूर्याभदेवेन भक्तिभरमानसेन नाट्यप्रदर्शनार्थं प्रभोरनुमतिर्याचिता । तत्र च यद्यनुमतिर्दीयेत, तहि सूर्याभदेवस्य भक्तिरनिरुद्धप्रसरा स्यात्, परन्तु गौतमादिमुनीनां नाट्यादिदर्शने स्वाध्यायादिहानिः स्यात् । इत्थं च साक्षात्तदनुमतिः साध्वहितप्रयोजकत्वान्नोचितेति सा न कर्त्तव्या । यदि च स्पष्टं निषेधः क्रियेत नाट्यकरणस्य, तर्हि सूर्या भभक्तिः कुण्ठिता स्यात्, एतदप्यनुचितमिति नाट्यकरणनिषेधोऽपि न श्रेयान् । ततश्च 'इतो व्याघ्रः इतस्तटी' इति न्यायापातात् भगवता अनुमति निषेधं च द्वयमपि उपेक्ष्य मौनमेव समाश्रितम्, परन्तु तन्मौ नं अर्थापत्याऽनुमतिबोधकमेव शास्त्रे ज्ञापितम्, प्रज्ञापनीयेऽनिषिद्धस्यानुमत-त्वावश्यम्भावात्। - भवतु नामेवं साक्षान्नाट्यानुमत्यभावेऽपि अर्थापत्याऽनिषेधरूपया तदनुमतिः, परन्तु तथा तत्र नाट्यं भवत्येव, ततश्च साधूनां स्वाध्यायादिहानिदोषोऽनिवारितप्रसरः स्यादेव । तत्कि स दोषः भगवतामनुमतो भवेत् ? किं स्वाध्यायादिहानिदोषप्रयोजक-नाट्यकरणं अनिषेधेनाऽर्थापत्याऽनुमन्यमानेन भगवत स दोषोऽप्यर्थापत्याऽनुमतो भवेत् ? इति प्रश्नः । नहि भगवान् एतद्दोषमनुजानातीति सम्भाव्यते । ततश्च तत्र साधवः किं कुर्वन्तीति प्रश्ने कल्प्यते समाधानं यदुत ते तत्स्थानान्निर्गत्यान्यत्र स्वाध्यायादिकं कुर्वन्ति, यदि वा परिणताः साधवस्तत्रैव नाट्यदर्शनेऽनपेक्षाः स्वाध्यायव्यापृता भवन्तीति न सूर्याभभक्तिनिरोधो, न वा साधूनां स्वाध्यायादिहानिरिति अयं मध्यमो मार्गस्तत्र सम्भाव्यते ।
एतदेवात्राप्यनुसन्धेयम् ।
तथाहि - गुरवस्तीर्थकरतुल्याः, श्रावकश्राविकादयः सूर्याभतुल्याः, शिष्यास्तु तीर्थकरसाधुतुल्याः । तत्र गुरवो यदि श्रावकादीन् उपधानादीन्यनुष्ठानानि निषेधयेयुः, तर्हि तेषां सम्यक्त्वादिगुणहानिः, यदि च तानि अनुमन्ये रन्, तर्हि साधूनां प्रचुरविकृत्यादिभक्षणजन्यविकारादिदोषापत्तिरिति गुरुभिस्तीर्थंकरदृष्टान्तमनुसृत्य न निषेधः कर्तव्यः, न वा साक्षादनुमतिः कर्त्तव्या । परन्त्वर्थापत्त्या तत्रानुमतिरेवावशिष्टा भवेत्, ततः श्रावकादयस्तान्यनुष्ठानानि कुर्युरेव । तत्र च साधुभिः किं कर्त्तव्यमिति प्रश्ने तदनुष्ठानासाहाय्यका मुनयस्तत्र न वसन्ति, परन्तु गुर्वनुज्ञयाऽन्यत्र निवसन्ति, येन दोषा न भवेयुः, यदि वा ते साधवस्तत्र वसन्तोऽपि अन्तप्रान्ततुल्यमेव भोजनं कुर्युः, न तु विकृत्यादिकं प्रचुरतया भुञ्जीरन् । इत्थं च न श्रावकादीनां सम्यक्त्वादिगुणहानिः न वा साधूनां कामविकारादिदोषापत्तिरिति मध्यमो मार्गः प्रकल्प्यतेऽत्र ।
0900209999999999999999900000299999999900200099999900 सिद्धान्त रहस्य बिन्दुः
९१