________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல CelecareerderaPasandesependeshpoelesopropomeglendarogapore
(६३) प्रथमद्वितीययोः क्षेत्रयोः प्रचुरभक्तपानकेभ्यः सकाशाद् बलवान् भवति, बलिनश्च मोहोद्भवो भवति - कामोद्भवो भवतीत्यर्थः ।
___ आह-एवं तर्हि यत्र भिक्षा न लभ्यते तत्र प्रयान्तु, उच्यते दुर्बलदेहः-कृशशरीरो न साधयति - नाराधयति योगान् - व्यापारान्,
यतस्ततो मध्यमबलाः साधव इष्यन्ते । (ओ.नि. १६३) apkiyodesickoolyo by skooloo toolity idol todily dystoskyliyokyo dostostostos.
चन्द्र. प्रथमक्षेत्रे प्रथमपौरुष्यामेव द्वितीये च द्वितीयायामेव प्रचुरभक्तपानलाभः, ततश्च तदन्यतरनिवासे प्रचुरभक्तपानाद् भवति साधुः बलिष्ठः, तस्य च कामोद्रेको भवेत् । तस्मादेतादृशे क्षेत्रे न वसनीयम्, तत्र साधोर्बलवत्ता तज्जन्यः कामोद्भवश्च स्यात् । तथा सर्वथा भिक्षाऽभावे शरीरकाकॊत्संयमसाधनाऽपि दुष्करेति तादृशेऽपि न वसनीयम्, किन्तु यत्र साधवो मध्यमबला भवन्ति, तत्र निवसनीयमिति वृत्तिभावार्थः । ।
ननु एवं सति यत्र भक्तिमतां श्रीमतां बहुषु गेहेषु विकृत्यादिलाभो भवति, तत्र न वसनीयम् । तथा यत्र प्रतिदिनं प्रचुरमिष्टान्नविकृत्याद्याप्तिर्भवति, तत्र तीर्थभूमिषु सामूहिकचातुर्मासे न वस्तव्यम्, छ'रीपालितसङ्केषु न गन्तव्यम्, न वा एकोनशतयात्राकर्मणि सिद्धाचलादिसम्भविनि निवासः कर्त्तव्यः, यत्र चैकान्तरितदिने विकृतिसदृशानि प्रचुराणि निर्विकृतिकानि लभ्यन्ते, तत्रापि श्रावको पधानविधौ न स्थिरता कर्त्तव्येति श्रीमत्सङ्घचातुर्मासछ'रीपालितसंघसिद्धाचलादि-यात्राकर्मश्रावकोपधानादीनि श्रावकाणां सम्यक्त्वादिवर्धकान्यनुष्ठानानि विच्छिोरन्, साधूनां तत्रावस्थानस्यानुचितत्वात्, साध्वभावे च तेषामसम्भवप्रायत्वादिति । न चैषां विच्छेदोऽप्युचितः, प्रचुर श्रावकाणां सम्यक्त्वाधुच्छेदप्रसङ्गात् । किञ्चेतादृशानुष्ठानेभ्य: संजातविरतिपरिणामा बहवः प्रव्रजन्तीति तदभावे प्रव्रज्याया अपि हानिरिति श्रमणश्रमणीसङ्घवृद्धिरपि निरुद्धा स्यात्, ततश्च जिनशासनोन्नतिरपि दुरापास्ता स्यात्, श्रमणश्रमणीसङ्घाघीनत्वात्तस्याः । इत्थं चात्र किं कर्तव्यमिति सन्देहदोलादोलायमानं मे हृदयं कथं निःसंदेहं निश्चलं च स्यात् ? श्रावकहिताय प्रकृतानुष्ठानकारापणे प्रस्तुतपाठानुसारेण साधूनामहितसम्भवो दुर्वारः, साधुहितरक्षणार्थं प्रकृतानुष्ठानत्यागे तु श्रावकश्राविकावर्ग रत्नत्रय्याराधनोपेक्षिता स्यादिति चेत् லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
९०