SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல प्रथममवस्थानमनुज्ञातम्, तदभावे संकीर्णोपाश्रये, तस्य चाभावे महत्युपाश्रये, यत्र भागो रिक्तोऽवशिनष्टि । इत्थं च उपाश्रये रिक्तभागोऽवशिष्टो भवेदिति उत्सर्गतो न शास्त्रानुमतमिति सिद्धं । तथा च यदि उपाश्रयान्तः एव बलीवर्दः कल्पनीयः स्यात्, तर्हि बलीवर्दपादादिभागा उपाश्रये रिक्ता एव भवेयुः, तत्र साधूनामवस्थानाननुज्ञानात् । तथा च स्पष्टमेव शास्त्रविरोधः, एकत्रोपाश्रये रिक्तभागानुज्ञानादपरत्र च तन्निषेधादिति । किञ्च युक्त्याऽपि नैष मतिभ्रमः सद्भूत आभाति । तथा हि - उपाश्रये एव बलीवर्दो यदि कल्पनीय: स्यात्, तर्हि तत्तल्लाभार्थिनां साधूनां तत्तत्स्थानोपवेशनाग्रहाद् महान्कलहः स्यात्, तथा च भावसंयमहानिः । अयं भावः उदरभागेऽवस्थानात् उत्तमभोजनावाप्तिरिति जानन्तः सर्वे उत्तमभोजनार्थिनः उदरभागेऽवस्थातुमिच्छेयुः, ततश्च भवेदेव कलहः, न चैतादृशं कलहोत्पादकमाचारं प्रवदन्ति महर्षय इति । एवमन्यदपि बहुकमत्र वक्तव्यमस्ति, परमेतावदेवाधुना पर्याप्तम्, तस्मात् निश्चेतव्यमेतद् यदुत "पूर्वाभिमुखः वामपाश्र्वोपविष्टो बलीवर्दो नोपाश्रयान्तः कल्पनीयः, किन्तु लोकनिवासाक्रान्तो यावान् ग्रामभागः, तावन्तं भागं आश्रित्य तादृशो बलीवर्दः कल्पनीय" इति । യമെർക്ക ളും മാതാപിതാക്കിളിനുമെതിച്ചിട്ടുള്ളു. (६१) शय्यातरेण पृष्टाः सन्तस्ते नैवं वदन्ति - एष्यामो न वा एष्याम इति । यत एवं भणने दोषः, किं कारणं ? यद्यैवं भणन्ति यदुतागमिष्यामः, ततश्च शोभनतरे क्षेत्रे लब्धे नागच्छन्ति, ततश्चानृतदोषः । अथ भणन्ति - नागमिष्यामः, ततश्च कदाचिदन्यत्क्षेत्रम् न परिशुध्यति, ततश्च पुनस्तत्रागच्छतां दोषोऽनृतजनितः । (ओ.नि. १५७.) ພາຂ້ອຍບໍ່ຄໍຜີຍຂໍຍໍ&wຂໍຍໍຍຂໍwwwww& seveo चन्द्र. क्षेत्रप्रत्युपेक्षकाः क्षेत्रप्रत्युपेक्षणानन्तरं शय्यातरेण पृष्टाः सन्तः कथं प्रत्युत्तरन्तीत्येतदत्र निगदितम् । तत्रागमनस्यानागमनस्य वा निकाचनायां कारणवशतस्तदकरणे मृषावादादिदोषसम्भव इत्यतस्तादृशं निकाचनं न करणीयमिति । லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः ८८
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy