________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல दधिक्षीरादियाचना प्रदर्शितेति साधूनां याचना न कल्पते इति वचनं एकान्तेन न ग्राह्यम् । या तु साधूनां याचनायाः अकल्पनीयता श्रूयते, सा लौल्यादिवशतः क्रियमाणां शासनापभ्राजनाप्रयोजिकां वा याचनामपेक्ष्य विज्ञेया, बालाद्यनुकूलक्षेत्रप्रत्युपेक्षणार्थं विधिना क्रियमाणा दुग्धदध्यादियाचना तु निःस्पृहपरिणामजन्यत्वात् हीलनाद्यप्रयोजकत्वाच्चोपादेयैवेति दृढं विश्वास्यम् ।
galopropropsoproprogropsopropoggooglecopgopgopsipgopgopgopgopgopeopgop
(६०) वसतिस्तु कीदृशे स्थाने कर्त्तव्या कीदृशे च न कर्त्तव्येति
व्याख्यानयन्नाह - तत्र वामपाश्वोपविष्टपूर्वाभिमुखवृषभरुपं क्षेत्रं कल्पयित्वा तत इदमुच्यते - शृङ्गप्रदेशे यदि वसतिं करोति. ततः कलहो भवतीति क्रियां वक्ष्यति । 'स्थानं' अवस्थितिर्न तच्चरणेषु - पादप्रदेशेषु, __ अपानप्रदेशे वसतौ क्रियमाणायामुदररोगो भवतीति क्रिया सर्वत्र योजनीया । पुच्छप्रदेशे अपनयनं भवति वसत्याः, मुखमूले चारी भवति, शिरसि शृङ्गयोर्मध्ये ककुदे च पूजासत्कारो भवति । स्कन्धे पृष्ठे च
भारो भवति, साधुभिरागच्छद्भिराकुला भवति, उदरप्रदेशे तु
नित्यं तृप्त एव भवति क्षेत्रवृषभः । (ओ.नि. भा. ७६-७७) anskossipstostosindostostostostosapodostostosaniloonsanslapstostos
चन्द्र. एतच्च सर्वं प्रायः सुबोधम् । नवरं केषाञ्चिदयं मतिभ्रमो विद्यते यदुत → उपाश्रयाभ्यन्तरे एव पूर्वोक्तं बलीव कल्पयित्वा तदनुसारेणैतत्कथनं सम्भावनीयम् - इति । एतच्च नियुक्तिकं, शास्त्रबाधितञ्च ।
तथा हि "वसतिस्तु कीदृशे स्थाने कर्त्तव्या...." इति वचनादेव ज्ञायते यदुत उपाश्रयः ग्रामान्तः कुत्र स्थाने ग्राह्यः ? कुत्र च न ग्राह्यः ? इति । ततश्च बलीवर्दो ग्रामव्यापी कल्पनीयः, न तु उपाश्रयव्यापीति स्पष्टमेव ।
तथाऽत्रैव ग्रन्थेऽग्रे वसत्यपरनामक उपाश्रयस्त्रिविधो वक्ष्यते, तत्र यस्मिन्नुपाश्रये, सकलसाधूनां शास्त्रोक्तक्षेत्रार्पणानन्तरं कोऽपि भागो रिक्तो नावशिनष्टि, तत्र GOGOx939 39 GOGOGOQ TO OGOGOG939 39 39 39GOGOGOGOGOGOGOGOGO सिद्धान्त रहस्य बिन्दुः
८७