________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல परन्तु यदा अन्येषां क्षेत्रप्रत्युपेक्षणाय प्रेषणं न सम्भवेत्, तर्हि अपवादत एते बालादय एव प्रेषणीयाः, तत्र च केन क्रमेण तत्प्रेषणं कार्यमित्यत्र निगद्यते ।
बालादीनां षण्णां मध्ये यो गणावच्छेदकः, स प्रेषणीयः, तस्यावश्यं गीतार्थत्वात् क्षेत्रप्रत्युपेक्षणादिकार्यकुशलत्वात् प्रेषणार्हतमत्वम् । स च गणावच्छेदको बालो वृद्धो योगवाही वैयावृत्त्यकरः तपस्वी वा सम्भवति, न तु अगीतार्थः, अगीतार्थस्य गणावच्छेदकत्वनिषेधात् ।।
यदि च षण्णां मध्ये न कोऽपि गणावच्छेदकः, तर्हि षण्णां मध्ये यो गीतार्थः, स प्रेषणीयः. तस्य गीतार्थत्वेनेतरापेक्षया प्रेषणार्हतरत्वम् । स च गीतार्थः बालः वृद्धो योगवाही वैयावृत्यकरस्तपस्वी वा सम्भवति, न तु अगीतार्थः, गीतार्थागीतार्थतयोः परस्परं विरोधात् ।
यदि च षण्णां मध्ये न कोऽपि गीतार्थः, तर्हि षण्णां मध्ये य अगीतार्थः, स प्रेष्यते। अत्र यद्यपि षडपि अगीतार्था एव, तथाऽपि बालादीनां अगीतार्थताबालत्वादयो बहवो दोषाः, केवलमगीतार्थस्य अगीतार्थत्वात्मक एक एव दोष इति स प्रेष्यते । स च सामाचारीकथनेन क्षेत्रप्रत्युपेक्षणायां गीतार्थः क्रियते, तदभावे योगी प्रेष्यते... इत्यादिविधिः सुबोध्य एवेति ।
ാട്ടർമാർക്കുള് (५९) एतदसौ साधुर्ब्रवीति - न वयं दोसीणं चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः इति । (ओ.नि. १४७) ບໍ່ຂໍຂໍຍໍຂໍຂໍຍໍຂໍຂໍຍໍຂໍຂໍຂໍຂໍຂໍຍໍຂໍຍໍຄໍຂ້ອຍບໍ່
चन्द्र. क्षेत्रप्रत्युपेक्षणार्थं गतः साधुः केन प्रकारेण प्रवर्तते इति विधिप्रतिपादयन्नाह एतदसौ इत्यादि ।
ननु याचना तु साधूनां निषिद्धा, श्रावकाः स्वयमेव यद् ददति, तदेव तैर्ग्राह्यम्, न तु याचना करणीयेति चेत्
केनेदं तव कर्णे जल्पितं ? 'सव्वंपि से जाइयं होइ, नत्थि किंचि अजाइयं' इति उत्तराध्ययनद्वितीयाध्ययनवचनात् साधूनां सर्वमपि अशनादिकं याचितमेव भवति, न त्वयाचितमिति । किञ्च वसत्यादियाचना तु साधुना क्रियमाणा प्रसिद्धव, तथाऽत्रैव साक्षाद् லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः