SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல - प्रास्ताविकम् स्वाध्यायादिप्रधानयोगनिरताः सर्वे संयमिनः । ___ आचार्यद्रोणवचनं ओघनियुक्तिवृत्तौ अस्ति यदुत 'इयं ओघनियुक्तिः प्रव्रज्याप्रथमदिवस एव दीयते' इति। अनेन वचनेन ज्ञायते यदुत 'ओघनिर्युक्ते: माहात्म्यं संयमजीवने अतिमहत्' इति। ओघनिर्युक्तेः तद्वत्तेश्च कतिपयानि वचनानि पृथक् कृत्वा तदुपरि विवेचनरूप: प्रस्तुतः सिद्धान्तरहस्यबिन्दुग्रन्थः मया स्वक्षयोपशमानुसारेणालिखितः । अत्र याः काश्चित् क्षतयः, सा ममैव, यत्तु शोभनं, तत् पूज्यपादानां युगप्रधानाचार्यसमपंन्यासप्रवरचन्द्रशेखरविजयानां दीक्षावाचनापरिणति प्रभृतिसुमहाघवस्तुप्रदायिनां कृपाया एव प्रभाव इति मम श्रद्धानम्। ___ 'वर्तमानसंयमिना भविष्यत्संयमिनां च हितं भवतु' इत्येतावन्मात्रभावनया कृतमिदं कार्यं यदि पुण्यानुबन्धिपुण्यजनकं भवेत्, तर्हि तादृशपुण्यप्रभावात् सर्वेऽपि वर्तमाना भाविनश्च संयमिनः शीघ्रतममेव स्वपरहितं साधयित्वा मोक्षमाप्नुवन्तु' इति प्रार्थनां कृत्वा विरम्यते। श्रमणसंघकिङ्करः युगप्रधानाचार्यसमपंन्यासचन्द्रशेखरविजयशिष्यः गुणहंसविजयः स्थान: नवकार वासणा संघ, अमदावाद वि.सं. २०७०, पोष वद-चतुर्दशी லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy