________________
७०७०
गुरुमिव मत्वा सकलामपि सामाचारीं तदग्रतः निवेद्य करोतीति ।
ननु किं तत्समीपे स्थापनाचार्याः अक्षादिरुपाः न सन्ति ? येन स दण्डकमाचार्यत्वेन कल्पयतीति चेत् सत्यं, न सन्त्येव स्थापनाचार्यास्तत्समीपे । यतो हि गच्छे भावाचार्याणां विद्यमानत्वात्तत्र सर्वे साधवो भावाचार्याग्रतो सकलां सामाचारीं निवेद्य कुर्वन्तीति साधूनां तावत्स्थापनाचार्यप्रयोजनं प्रायो न भवत्येव । भावाचार्याणान्तु गुर्वभावात् स्थापनाचार्यप्रयोजनं भवति । अत एव स्थापनाचार्याः आचार्योपधिरुपा निगद्यन्ते, न साधूपकरणान्तर्गता इति ।
किञ्च साधवोऽपि यदि स्थापनाचार्यान् गृह्णन्ति, तदा प्रभूतानां स्थापनाचार्याणां प्रयोजनं भवेत् ते च तथाविधाक्षादिरुपाः निर्दोषास्तु दुर्लभा एवेति आधाकर्मादिदोष-करणादौ तु महान् संयमपलिमन्थ इत्येवमादिकारणमपि साधूनां स्थापनाचार्याभावे दृष्टव्यम् । अत एव कारणवशतो गच्छान्निर्गतः साधुः अपान्तराले परिवसन् दण्डकं आचार्यत्वेन संस्थाप्य तदग्रे सकलां सामाचारीं निवेद्य करोतीत्येतन्निर्दोषमेवेति ।
एतच्च तत्त्वं निगदितम्, व्यवहारतस्तु वर्तमानां तत्तद्गच्छसामाचारीमनुसृत्य तत्तद्गच्छीयैः प्रवर्तितव्यमिति ।
എന
(५५) चक्रं - धर्मचक्रं, स्तूपो मथुरायां, प्रतिमा - जीवन्तस्वामिसम्बन्धिनी पुरिकायां पश्यति, जन्म- यत्रार्हतां सौरिकपुरादौ व्रजति, निष्क्रमणभुवंउज्जयन्तादिं द्रष्टुं प्रयाति, ज्ञानं यत्रैवोत्पन्नं तत्प्रदेशदर्शनार्थं प्रयाति, निर्वाणभुमिदर्शनार्थं प्रयाति । संखडी - प्रकरणं तदर्थं व्रजति, विहारार्थं व्रजति, स्थानाजीर्णं ममात्र । यस्मिन्विषये स्वभावेनैव चाहार: शोभनस्तत्र प्रयाति । अमुकत्र विषये उपधिः शोभनो लभ्यत इत्यतः प्रयाति, तथा रम्य - देशदर्शनार्थं व्रजति ।
एतान्यकारणानि संयतस्य ? किंविशिष्टस्य ? असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणानीति । तान्येव धर्मचक्रादीनि कारणानि
७०९७०७
सिद्धान्त रहस्य बिन्दुः
१७०७०७
८३