________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல रात्रिगतार्थचिन्तनजपजागरणाद्यनुष्ठानाचरणश्रान्तास्ते दिनेऽपि श्रमापगमाय निद्रान्ति । तथा अल्पवयस्का अपि आचार्यादयः तथाविधविषमरोगग्रस्तावस्थाः दिनेऽपि अनेकशः स्वपन्तीत्येवमादिकोऽपवादो यथासम्भवमत्रापि चिन्तनीयः ।
തിയിലും ഹാജരാക്കിളും
(५१) नित्यवास्यादयः सहितेतरे, सहिताः = संयतीभिर्युक्ताः केचन नित्यवास्यादयो भवन्ति, इतरे इत्यपरे संयतीरहिता भवन्ति, तेषु च निवसति । ये ते संयतीभिर्युक्तास्ते द्विविधाः - एके कालचारिणीभिः
संयतीभिर्युक्ताः, तत्र निवसत्येव, अपरे अकालचारिणीभिः संयतीभिर्युक्ता, कश्च कालः ? पक्खिए व सज्झाए त्ति । ताः संयत्यः
पाक्षिकक्षामणार्थमागच्छन्ति स्वाध्यायार्थं वा, अयं कालः शेषस्तु अकालः, तत्र वासस्तु तस्य साधोः कालचारिश्रमणीयुक्तेषु भवतीति । अथ कालचारिसंयतीयुक्ताः साधवो न सन्ति, ततः पार्श्वस्थादिषु वसति,
न च वसत्यकालचारिसंयतीयुक्तेषु । (ओ.नि. १०८-१०९) tos koddroidrohibodieos kodlaodioodikodikokodios kodkoskoskof bodieoipokho dikodiof
चन्द्र. गुर्वादिकार्यार्थं निर्गतः साधुरपान्तराले रात्रौ कुत्र केन सह वसतीत्येतन्निरुपणपरं प्रकृतं शास्त्रवचनम् । तत्र चायं क्रमः प्रथमं संविग्नसमनोज्ञेषु वसतिरन्वेषणीया, तदभावे महिलारहितश्रावके, तदभावे महिलारहितभद्रकगृहस्थे, तदभावे महिलासहितगृहस्थस्य बहिरवस्थितस्थानविशेषे तद्गृहफलहिकान्तर्गतकुट्यां वा, तदभावे शून्यगृहे, तदभावे कालचारिसंयतीयुतेषु नित्यवास्यादिषु, तदभावे पार्श्वस्थादिषु वसति । न च अकालचारिसंयतीयुक्तेषु नित्यवास्यादिषु वसति ।
इत्थं च संवासमपेक्ष्य कालचारिसंयतीयुक्ताः सर्वथा संयतीरहिता वा पार्श्वस्थादय अकालचारिसंयतीयुक्तनित्यवास्यादिभ्यः सकाशाद् उत्तमा इति निर्गलितोऽर्थः ।
अत्र कश्चित्सूक्ष्मार्थावगाहननिपुणमतिकः प्रश्नयति → २०६ गाथायां லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः