________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல റിപ്പറ്റിയായി മാറിയിരിക്കും വിവാഹമ
(५०) फलकानामवस्थितिं पश्यति, तानि हि वर्षाकाल एव गृह्यन्ते न शेषकाले । स तु प्रविष्टः शेषकालेऽपि फलकानि गृहीतानि पश्यति, ‘सेज्जा' इति शेरतेऽस्यामिति शय्या-आस्तरणं, तदास्तृतमेवास्ते । (ओ.नि. १०३) desidodayidiyo kori kor ke idos koi boy sidos donloddodkyidos koi dodi ko doodrikodays, __ चन्द्र. गुर्वादिकार्यार्थं गच्छन्साधुः ‘अपान्तराले ग्रामादिषु मीलिताः साधवः किं संवासयोग्याः सन्ति न वा ?' इति परीक्षार्थं बाह्याभ्यन्तरप्रत्युपेक्षणां करोति । तत्र यदि उपाश्रये शेषकालेऽपि तैः फलकानि गृहीतानि उपभुज्यमानानि च पश्यति, दिवसेऽपि आस्तरणं आस्तृतमेव पश्यति, तदा तं साधुसमूहं संवासायोग्यं जानातीति ।
ननु आसतां शेषसाधवः, आचार्यादयस्तु शेषकाले फलकादीनि उपभुञ्जन्त्येव, विशेषपदस्थायित्वात् । तथा दिनेऽपि तेषामास्तरणमास्तृतं भवत्येव, श्रमनिवारणार्थं निद्रायाः, तेषामनुज्ञातत्वादिति चेत् । __न, आचार्याणामपि शेषकाले फलकादिपरिभोगेनोन्मार्गगामित्वं प्रतिपादितमस्ति गच्छाचारे आचार्यनिरुपणाधिकारे, ततश्च विशेषपदस्थायिनामपि तेषां शेषकाले फलकादिपरिभोग उत्सर्गतो निषिद्ध एव । एवं आचार्यगुणनिरुपणाधिकारे 'अल्पनिद्रः' इति गुणस्य निरुपितत्वात्, शेषसाध्वपेक्षया तेषामल्पनिद्रत्वं शास्त्राभिमतम्, ततश्च यदि शेषसाधूनामपि दिने आस्तृतमेवास्तरणं निषिद्ध्यते, तर्हि तदल्पनिद्राणां आचार्याणान्तु तन्निषेधः स्पष्ट एवेति । ___ एष चोत्सर्गमार्गः । अपवादतस्तु उभयमपि आचार्यादीनां कल्पत एव । तथाहि - भूमौ उपवेशने यदि आचार्याणां अन्यतीर्थिकमध्ये गौरवहानिर्भवेत्, यथा 'एते नीचैर्वर्तिनः, अन्यतीथिकाश्च सिंहासनाधु पवेशनादुच्चै स्तरा' इति, तर्हि शेषकालेऽपि फलकादिपरिभोगोऽनुज्ञायते । एवं अतिशीतोष्णकाले भूमौ उपवेशने शीतोष्णादिजन्यपीडाया असहिष्णुत्वे सति शेषकालेऽपि स अनुज्ञायते । एवमन्यान्यपि पुष्टालम्बनानि यथासम्भवमवगन्तव्यानि वर्तमानद्रव्यादिकं सम्प्रेक्ष्य । न तु शास्त्रवचनेऽपि एकान्तग्राहिणा भाव्यम्, तस्योत्सर्गापवादनिश्चयव्यवहारनय-निक्षेपादिसंवलितत्वेनाने कविधत्वस्यावश्यंभावित्वात् ।
तथा वयोऽतिक्रमे आचार्यादयः शरीरबलवैकल्याद् दिनेऽपि निद्रान्ति, एवं GOGOGOGIQ 9 SO XOCXOCQGQ CQ OGOGOGOGOGLOGOGOGOQQQQATOOTOGOGOGO सिद्धान्त रहस्य बिन्दुः
७७