________________
93996199
७७७०७
ततश्चैतादृशाशङ्कानिवारणार्थं प्रच्छन्नभोजनं क्रियत इति सुस्थम् । प्रकृते च पात्रके भोजनं कुर्वन्तं साधुं दृष्ट्वा लोकविरुद्धत्वादिज्ञानाद् सागारिको लोकान् कथयति, तत्र चानयतीत्यादि यथासम्भवं सर्वं योजनीयमिति ।
ॐॐ
മഹാനനനാനനനനനനനനന
(४९ ) अथ स्थण्डिलं नास्ति, क्षुधा च पीड्यते, ततोऽस्थण्डिल एव चीरमास्तीर्य पादयोरधस्ततश्च भुङ्क्ते, किमर्थ पुनस्तच्चीरमास्तीर्यते ? अत आह - परिशाटिनिपातसंरक्षणार्थं, तया हि परिशाट्या निपतन्त्या पृथिवीकायादि विध्वस्यत इति । (ओ.नि. भा. ६३ )
boooooooooooooooooooototypotosbotobodoos tooooooooo
चन्द्र. एकग्रामाद् ग्रामान्तरं गच्छन्साधुर्यं विधिं करोति, स अत्र प्रतिपादितः । पूर्वग्रामगृहीतमशनादि तत्र भोजनस्थानाभावे विवक्षितग्रामान्तरं गच्छन् साधुः केन प्रकारेण मार्गे भुनक्तीति अत्र प्रतिपादितमिति भावः ।
ननु चीरास्तरणकारणं तावत् परिशाट्या पृथ्वीकायविध्वंसनरक्षणं प्रतिपादितम्, परं न तद् घटते । यतो हि चीरास्तरणेऽपि पृथ्व्यादिविराधना भवत्येव । न हि अशनादिकणवत् चीरं पृथ्वीकायादिशस्त्रं नास्तीति एतद् निगदितुं शक्यम् । प्रत्युत परिशाटी अल्पस्मिन्नेव पृथ्व्यादिभागे निपतति, ततश्च तयाऽल्पा विराधना, चीरन्तु बहुभागे आस्तीर्यत इति तया बह्वी विराधनेति चेत्
1
न, चीरास्तरणानन्तरं भुक्तौ या परिशाटी, सा चीरे एव निपतति, तच्च सपरिशाटिचीरं भुक्त्यनन्तरं साधुना दूरीक्रियत इति स्वल्पोऽपि परिशाटीभागः तत्र भुक्त्यनन्तरं न भवेत् । इत्थं च चीरजन्या विराधना भुक्तिकालमात्र भाविनी । चीराभावे तु परिशाटी साक्षात् पृथ्व्यादिष्वेव निपतेत्, तस्माच्च तदुद्धरणं दुःशकमिति सा परिशाटी तत्र चिरकालमवतिष्ठते इति तत्रैव बह्वी विराधना । इत्थं चाधिकविराधनानिवारणार्थं चीरास्तरणं सङ्गतमेवेति । नद्युत्तरणविधिः स्थण्डिलास्थण्डिलाभ्यामस्थण्डिलस्थण्डिलसङ्क्रमणविधिश्चेममेव न्यायमनुसरतीति पूर्वापरपर्यालोचनपरायणेन भवितव्यं मतिमतेति ।
69999999७७७७७७७७७७०७०७०७०७७७७७७०७
७६
सिद्धान्त रहस्य बिन्दुः