________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல इत्येतादृशपूर्वपक्षसमाधानार्थं महोपाध्यायैः 'चारित्रवत्त्वे सति' इत्यादिवाक्यं समाधानतया निगदितम् । अत्र हि पार्श्वस्थादीनां व्यवच्छेदार्थं एकसामाचारीकत्वपदमस्ति, ततश्चारित्रं तु तेषामस्त्येव, केवलं एकसामाचारीकत्वस्य अभावादेवावन्द्यत्वम् । तथा चात्र प्रतिगच्छं द्रव्यक्षेत्रादिवशकृता विभिन्ना सामाचारी नाभिप्रेता, अपि तु संविग्नताप्रयुक्ता प्रायः सकलगच्छसमाना सामाचार्येवाभिप्रेता । तथा च सर्वे एव संविग्नगच्छा भिन्ना अपि सन्तः संविग्नताप्रयुक्तैकसामाचारीमन्त इति परस्परं सर्वे वन्दनीयाः, पार्श्वस्थादयस्तु चारित्रवन्तोऽपि संविग्नताप्रयुक्तैकसामाचारीकत्वाभावात् न वन्दनीया इति । तथा च ओघनियुक्तिवचनवत् गुरुतत्त्वविनिश्चयवचनमपि सर्वेषां संविग्नानां साम्भोगिकासाम्भोगिकानां परस्परं वन्दनीयताप्रतिपादकमिति नात्र कश्चिद् विरोध इति सूक्ष्म निभालनीयम् । ___ ननु तथापि न मनः संतुष्यति, ‘एकगच्छव्यवहारवतां वन्दनप्रवृत्तेः' इति तत्रैवाने अनन्तरमेवोक्तत्वात् । ततश्च भिन्नगच्छव्यवहारवतां वन्दनाप्रवृत्तिः सिद्धैवेति चेत् __न, अत्राऽपि एकगच्छव्यवहारः संविग्नताप्रयुक्तशोभनाचाररुप एव, स च पार्श्वस्थादिगच्छे नास्तीति तेऽवन्दनीया इति सर्वं सुस्थम् । इत्थमपि च शङ्काऽनिवारणे तु 'महोपाध्यायाद् पूर्वमेव असाम्भोगिकसंविग्नवन्दनव्यवहारनिषेधस्य प्रवृत्तत्वात् तैः तथोक्तम्' इति यथाकालं वचनद्वयस्यापि साङ्गत्यं चिन्तनीयमिति ।
ननु परस्परं वन्दनव्यवहार इव भक्तपानादिव्यवहारोऽपि किमर्थं शास्त्रेण नानुमन्यत इति चेत् ‘मा भूच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति' प्रकृतवचनोक्तकारणादिति जानीहि ।
इदमत्र तात्पर्यम्, सामाचारीभेदे एवासाम्भोगिकत्वम्, ततश्च यद्यासाम्भोगिकैः सह भक्तपानादि क्रियेत, तहि उभयपक्षवतिनोऽपरिणतसाधवः परस्परं विभिन्नसामाचारीदर्शनात् मतिभेदादिकं दोषं प्राप्नुयुः ।
तथाहि - कुत्रचिद् गुरव एव सर्वान् भक्तपानादि परिवेषयन्ति, कुत्रचिच्चान्यतमः कश्चित्साधुरेव । कुत्रचित् आचामाम्लादितपोऽर्थं स्थापनादिदोषान्वितमपि भक्तं अनुज्ञाप्यते, कुत्रचिच्च शुद्धभोजनमेवानुज्ञाप्यते । एवमन्येऽपि बहवः सामाचारीभेदाः सम्भवन्ति, अपरिणताश्च शैक्षकाः कदाचित्स्वकीयसामाचारीमेव शोभनां मत्वाऽन्यान् साधून् शिथिलान् कल्पयन्ति, कदाचिच्चान्यदीयसामाचारी शोभनां मत्वा स्वकीयान् शिथिलान् कल्पयन्ति, अन्यदीयसामाचारीग्रहणतश्च स्वगणे एव सामाचारीभेदं उत्पादयन्ति, ततश्चैकस्मिन्नेव गणे லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
६८