________________
१७०७०७
(४२) असाम्भोगिकसकाशं प्रविशता तदानाक्रान्ते भूप्रदेशे निक्षिप्योपकरणं ततः कृतिकर्मादि साम्भोगिकेष्विव सर्वं कर्त्तव्यमिति । तदनाक्रान्तभूभागे चोपकरणं स्थापयति, मा भूच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति । (ओ.नि. ७२ )
Booooooooooooooooooooooooooooooooo
चन्द्र. साम्भोगिकाः नाम परस्परं समानसामाचारीकाः संविग्नाः, असाम्भोगिकाश्च परस्परं विभिन्नसामाचारीकाः संविग्नाः एव, असंविग्नानां साम्भोगिकवदसाम्भोगिकव्यपदेशस्याप्यभावात् ।
नन्वत्र असाम्भोगिकेष्वपि साम्भोगिकेष्विव सर्वं कृतिकर्मादि कर्त्तव्यतया प्रतिपादितम्, ततश्च असाम्भोगिकानामपि वन्दनकरणादिकं शास्त्रानुसारीति आपन्नम् । किञ्चात्रैव ग्रन्थेऽग्रे ‘असाम्भोगिकान् द्वादशावर्तवन्दनेन वन्दते' इति वक्ष्यते । ततश्चाधुना असाम्भोगिकानां परस्परं वन्दनव्यवहारनिषेधः कथं घटेत इति चेत्
संविग्नगीतार्थबहुजनाचीर्णेयं साम्प्रतकालभाविनी परम्परेति सङ्घटना कर्त्तव्या । अयं भाव: 'गुणाधिके वन्दनं कर्त्तव्यं' इति न्यायात् असाम्भोगिकानामपि दीर्घपर्यायादिगुणवतां वन्दनकरणादिकं सुसङ्गतमेव । परन्तु कस्मिंश्चित्काले तदानीन्तनानां बहूनां संविग्नगीतार्थानां "परस्परं वन्दनव्यवहारोऽपि न कर्त्तव्य" इति निर्णयोऽभवदिति तत्कालादारभ्येयं व्यवस्था वर्तत इति बोध्यम् ।
कस्मिन्काले कैः कारणैरियं व्यवस्था प्रवर्तितेति तु सम्प्रदायापरिज्ञानान्न वक्तुं पार्यते । ननु गुरुतत्त्वविनिश्चये तावदित्थमुक्तं "चारित्रवत्त्वे सति एकसामाचारीकत्वस्यैव वन्द्यतायां तन्त्रत्वात्" (१/१२३) एकसामाचारीकत्त्वं नाम साम्भोगिकत्वमेव, तथा च चारित्रवत्त्वे सति साम्भोगिकत्वं वन्दनीयत्वमित्यापन्नम् । प्रकृतपाठे च भिन्नसामाचारीकस्यापि संविग्नस्य वन्दनीयत्वं प्रतिपादितमस्ति, एवं च कथं न परस्परं विरोध इति चेत्
अत्रेदं समाधानं । 'पार्श्वस्थादयोऽपि यदि चारित्रवन्तः सम्भवन्ति, तत: तेषामुत्सर्गतोऽपि वन्दनीयत्वं किं न भवति ? किमर्थं तेषामपवादत एव वन्दनीयत्वं'
७०७०७१७२
१०७०७०७७७७७०
सिद्धान्त रहस्य बिन्दुः
६७