________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
चैत्यरहितेषु ग्रामेषु श्रावकश्राविकाणामवस्थानं कथं सम्भवेदिति प्रश्नोत्तरं अधुना विभाव्यते । ___ यद्यपि श्रावकधर्मस्य सम्यक्त्वमूलकत्वात् सम्यक्त्वस्य च जिनप्रतिमापूजादिबाह्यक्रियाऽधिगम्यत्वात् श्रावकस्य जिनप्रतिमापूजनादिकं भवत्येवेति तद्रहिते स्थाने तेषामवस्थानं न सम्भवतीति । तथाऽपि अत्रापि बहु चिन्तनीयमस्ति । तथाहि – तत्र ग्रामे केचिज्जना आचार्याधुपदेशतोऽभिनवमेव जैनधर्मं प्रतिपन्ना इति व्यवहारतस्ते तत्र जैनश्रावका उच्यन्ते, तेषां च तदानीमेव धर्मप्राप्तेः चैत्यनिर्माणावकाशो न अभवत्, ततश्च तस्मिन्काले स ग्रामः चैत्यरहितो वर्गचतुष्टयसमन्वितश्च सम्भवतीति ।
किञ्च सम्यक्त्वमपि तावत् अरिहंतो मह देवो जावज्जीवं सुसाहुणो गुरुणो । जिणपन्नत्तं ततं इअ सम्मत्तं मए गहिअं इति वचनात् सुदेवसुगुरुसुधर्मप्रतिपत्तिरुपं व्यवहारतोऽभिमतम् । तत्र जिनपूजादिक्रियाणामवश्यम्भावनियमो न भवति । क्रियासद्भावस्य द्रव्यादिसामग्यानुकूल्येन नियतत्वात् । तथाहि-तथाविधदेशे चैत्याभावाद् रोगस्वामिभयाद्यापत्तितो वाऽन्यतो वा कारणाज्जिनपूजाद्यकारिणो पूर्वमपि आसन् सन्ति च साम्प्रतमपि । न चैतावता तेषां श्रावकत्वाभावः । तथा च कुत्रचिद् ग्रामेषु चैत्याभावेऽपि श्रावकवर्गसद्भावो न विरूद्धो भवति ।
तथापीदमत्रावधेयम् - सत्यामपि सामग्यां जिनपूजाद्याचारोपेक्षिणस्तु प्रायो श्रद्धाहानिप्रसङ्गःस्यादिति दर्शनविशुद्धिमिच्छन्तो सदा जिनपूजाद्याचारपरायणाः भवन्त्येव । प्रस्तुतेऽपि च चैत्याभावेऽपि भावतस्तीर्थयात्रादिप्रकारेण जिनपूजाद्याचारोऽनिरुद्धप्रसरो ज्ञेयः ।
ആളുകളെടുക്കുകളിച്ചിട്ടുമെങ്കിളുകളുമൊക്കുമൊപ്പമുള്ള ജില്ലകളിളകിടുമെന്റുകളെ കൊല്ലിമല്ലിപ്പെടുമെങ്കളുടിച്ചു. __ (४१) यदि चैत्यगृहमस्ति, ततस्तस्मिन्नेव गन्तव्यम् । (ओ.नि. ६७) ໑໖yຣ໌ບໍ່ຮູ້ ຂ້ອຍບໍ່ຮູ້ເຂື່ອwwwwຣິບຊິຍອງຂ້ອຍ ບໍ່ຮູ້ວ່າຂ້ອຍຊິຍອງຂ້ອງ
चन्द्र. चैत्यगृहसद्भावेऽपि तदतिक्रम्योपाश्रयादौ प्रवेशे जिनाशातनाप्रसङ्गात. सर्वत्र सति चैत्यगृहे प्रथमं तत्रैव वन्दनार्थं गन्तव्यम् । अयं चोत्सर्गः, अपवादतस्तु प्रश्रवणादिशङ्कानिवारणग्लानादिसम्बन्धिभक्तपानाद्यानयनादिकार्यवशतश्चैत्यगृहमतिक्रम्यापि उपाश्रयप्रवेशे न दोष इति बोध्यम् ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः