SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல तथाऽन्यतीथिकाश्चैत्यरहितेषु ग्रामेषु गत्वा मुग्धजनान् श्रावकादींश्च विप्रतारयेयुः, ते च सुसाधुसङ्गाभावात् स्वयं तादृशप्रज्ञत्वाभावाच्च न विवेकं कर्तुं शक्नुयुः, तथा च चैत्यवन्दनार्थं तादृशग्रामावस्थानपरित्यजने बहुजनानां सम्यक्त्वादित्यागः प्रगृहीतो भवति, मिथ्यादृष्टीनां चावकाशो दत्तो भवति, न चैतद्गौरवलाघवचिन्तनचतुरप्रज्ञानां महात्मनां कथमपि सङ्गच्छत इति ।। अत एव "तादृशप्रदेशेषु गोचरीदौर्लभ्यात् आधाकर्मपरिभक्षणेनाऽपि यदि तत्रस्थानां श्रावकादीनां सम्यक्त्वादीनि सुरक्षितानि कर्तुं शक्यन्ते, तर्हि तदपि समाश्रयणीयं अपवादत आधाकर्मपरिभक्षणस्यादोषत्वात्" इति अनेके गीतार्था वर्तमानकाले प्रतिपादयन्ति । तदेवमादिदोषसम्भवात् 'साधूनां चैत्यरहितेषु ग्रामेषु नावस्थानं' इति न युक्तमाभाति । अत एव "यदि तत्र चैत्यानि सन्ति, ततो वन्दन्ते" इति अग्रेऽत्रैव वृत्तौ गदितम् । तत्र च मासकल्पक्षेत्रेऽपि 'यदि तत्र चैत्यानि सन्ति' इति शब्दैः चैत्यसद्भावभजनैव प्रकटीकृतेति दृढतरमूहनीयम् । ननु तर्हि श्रीकल्पसूत्रसुबोधिकावृत्तौ चातुर्मासक्षेत्रगुणेषु चैत्यसद्भावः किमर्थं प्रतिपादित इति चेत् अहो मुग्धता । यदि तत्र चैत्यं भवेत्तहि शोभनमेव, कस्तत्र निषेधमाह ? केवलं चैत्याऽभावे नैव स्थातव्यमिति एकान्त एव न न्याय्यः, न च सर्वक्षेत्रगुणसद्भावे एव तत्रावस्थातव्यमिति नियमः, किन्तु यथागौरवलाघवमेवावस्थानं युक्तम् । यथाऽऽचार्यस्य षट्त्रिशद् गुणाः प्रतिपादिताः, परन्तु एकद्वित्र्यादिसामान्यगुणाभावे नाचार्यपदायोग्यत्वम् । इत्थं च यथा षट्त्रिंशद् गुणा कस्यचित्सम्भवेयुः, तर्हि शोभनमेव, परन्तु एकद्वित्र्यादिसामान्यगुणाभावेऽपि यथालाभं आचार्यपदं दीयत एव, एवं सर्वे क्षेत्रगुणाः यदि कुत्रचित्सम्भवेयुः, तर्हि शोभनमेव, परन्तु एकद्व्यादिसामान्यगुणाभावेऽपि तत्र यथालाभं अवस्थानं युक्तमेवेति । किञ्च सुबोधिकावृत्तौ उत्सर्गमार्गो निरुपितः, अपवादतस्तु अधिकलाभे सति चैत्यरहितेऽपि स्थानेऽवस्थानं न दुष्टमित्यपि वक्तुं शक्यते । अपरं च तत्तत्कालापेक्षया सामाचारीपरिवर्तनमपि न दुःशकं, ततश्चैतदपि सम्भवति यदुत मासकल्पादिसामाचारीपरिपालनसमन्विते प्राचीनकाले चैत्यसत्ता-ऽऽवश्यकता न भवेत्, विनयविजयोपाध्यायकाले तु मासकल्पादिसामाचारी-परिपालनरहिते चैत्यसत्ताऽऽवश्यकता सामाचार्यां प्रविष्टा भवेदिति न किञ्चिद्वचन-मात्रदर्शनतो व्यामोहः कार्य इति । ஒவைஷைவைஷைவைஷலைஒைஓலை सिद्धान्त रहस्य बिन्दुः ६५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy