SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ർപ്പണർമാർജ്ജ (४०) अथ चैत्यगृहमेव केवलं पृच्छति, ततस्तदभावे वर्गचतुष्टयभावे च तत्प्रभवगुणहानिः स्यात् । (ओ.नि. ६६) தரும் கடும் போலி திரும் திருவிக்கும் பரவி பாலி தாலி பாக்கமும் இரவி பழம் மேல் மேல் கால் மேல் விரல் தாலி கயாம் चन्द्र. अन्तरालिकग्रामान्तर्गतः साधुः "किमत्र ग्रामे चैत्यगृहमस्ति न वा' इत्येव केवलं पृच्छेत्, तर्हि ग्रामजनः चैत्यगृहाभावे "अत्र तन्नास्ति" इति वदेत्, ततश्च साधुः प्रत्यावर्तेत। साधुना हि साधुसाध्वीश्रावकश्राविकासम्बन्धिनी पृच्छा न कृता, ततश्च ग्रामजनेन तेषां सत्त्वेऽपि तत्सम्बन्धि किमपि न कथ्यते इति सम्भवति । एवं च वर्गचतुष्टयजन्यस्य लाभस्य वञ्चना भवेत् साधोः, तस्मात्साधुना केवलचैत्यविषयकपृच्छा न कर्त्तव्येति भावः। __ अत्र कश्चिदाह "किमेतादृशमपि क्षेत्रं तदानीमभूत्, यत्र चैत्यगृहं नासीत्, वर्गचतुष्ट्यं च आसीत् ? साधुसाध्वीभिः चैत्यसमन्वित एव क्षेत्रे निवासः कर्त्तव्य इति विधिः । ततश्च चैत्यरहितग्रामे तेषां अवस्थानं कथं घटेत ? तथा श्रावकश्राविकाणामपि जिनपूजाया नित्यकृत्यत्वात् चैत्यं विना तस्याः असम्भवात् कथं तद्रहिते स्थानेऽवस्थानमिति महतीयमाशङ्का' इति ।। अत्रोच्यते, संयतानां तावत् संयमप्रधानत्वात् न जिनप्रतिमाद्यालम्बनावश्यकत्वं तदानीं अभूत्, यानि तु चैत्यवन्दनानि प्रतिदिनमवश्यकर्त्तव्यानि, तानि भावाचार्यस्थापनाचार्ययोरन्यतरस्याग्रे भावभगवन्तं मनसिकृत्य सम्पादनीयानि भवन्तीति संयतानां चैत्यान्विते एव ग्रामे स्थेयमिति तदानीं नियमो नाभूत् ।। किञ्चैतन्नियमकरणे दोषा अपि भवन्ति, तथाहि – एतादृशनियमे सति चैत्यरहितग्रामेषु न स्थातव्यं स्यात्, ततश्च यदाऽपान्तराले बहवो ग्रामास्तादृशा भवेयुः, तदा तान् सर्वान् परित्यज्याग्रे चैत्यान्विते ग्रामे गन्तव्यं स्यात्, ततश्च तदर्थं दीर्घविहारोऽनिवार्यः, दीर्घविहारे च श्रमादयो दोषाऽनिवारितप्रसरा इति ।। ___ तथा चैत्यरहितेषु ग्रामेषु साधूनामनवस्थाने तत्रस्थजनेषु साधुदर्शनप्रवचनश्रवणसुपात्रदानगुणानुमोदनादिप्रभव उपकारो बीजाधानादिरुपः न सम्भवेत्, अपारपारावारसंसारोत्तरण-कल्पबीजाधानाद्यभावे चातिदुस्तर एव तेषां भवमहोदधिरिति । तथा चैत्यान्वितग्रामेष्वेव साध्ववस्थानानुज्ञायामन्यग्रामेषु जिनशासनप्रभावनानूतनश्रावकसाध्वादिरुप-सङ्घपरिवृद्धिश्च न सम्भवेदिति । லலலலலலலலலலலலலலலலலலலலலலலலலலலல ६४ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy