________________
ஸ்ஸ்ஸ்ஸ்ஸ்
७०७०७०७०७
मोक्षार्थिनामनिष्टः, तस्य संसारकारणत्वं च ' पुण्यक्षयात्पापक्षयाच्च मुक्ति:' इति शास्त्रव्यवस्थात एव सिद्धमिति सप्तमाष्टकगाथासङ्क्षेपार्थः । अत्र च पुण्यबन्धः साधूनामनिष्टः, तत्परिहारार्थं च अनुकम्पादाननिषेधः, तदर्थं च प्रच्छन्नभोजनमिति निगदितम् । ततश्च साधूनां पुण्यबन्धो हेयस्तज्जनयित्री प्रवृत्तिरपि च हेयेति स्पष्टम् । प्रकृते च द्रोणवृत्तिवचने पुण्यावाप्तिरुपादेयतया प्रतिपाद्यते इति स्पष्टमेव विरोध इति चेत्
न, वचनद्वयस्य विभिन्नविषयत्वात् । तथाहि - अप्रच्छन्नभोजनेन शास्त्रार्थबाधः, ततश्च तत्र य: दानजन्यः पुण्यबन्धो भवति, स निर्जराप्रतिबन्धक इति कृत्वा हेयः, शास्त्रार्थाबाधेन तु यः पुण्यबन्धो भवति, स निर्जराप्रतिबन्धको नेति स उपादेयः । ततश्च द्रोणवृत्तिवचनं शास्त्रार्थाबाधजन्यस्य निर्जराऽप्रतिबन्धकपुण्यबन्धस्योपादेयतासूचकं, अष्टकवचनं च शास्त्रार्थबाधजन्यस्य निर्जराप्रतिबन्धकपुण्यबन्धस्य हेयतासूचकमिति न कश्चिद् विरोधः ।
एतच्च समाधानं द्वात्रिंशद्द्वात्रिंशिकावचनमनुसृत्योक्तम् । तथा चोक्तं तत्र महोपाध्यायैः नैवं, यत्पुण्यबन्धोऽपि धर्महेतुः शुभोदयः इति । तद्वृत्तौ च शास्त्रार्थाबाधेन निर्जराप्रतिबन्धकपुण्यबन्धाभावान्न दोष इति गर्भार्थः इति प्रोक्तम् ।
इत्थं च ‘पुण्यकर्म सर्वथा मोक्षार्थिनां हेयं' इति एकान्तोऽपि न कान्त इति बोध्यम् । साधूनामपि शास्त्रार्थाबाधजन्यस्य पुण्यकर्मणो गुणत्वात् । पुण्यानुबन्धिपुण्यं उपादेयं पापानुबन्धि पुण्यं हेयं इत्येवमेव न्याय्यत्वात् ।
अत्र पुण्यानुबन्धिपुण्योपादेयतासूचकानि गणियशोविजयविरचितवृत्तौ प्रतिपादितानि शास्त्रवचनानि कानिचित्प्रतिपाद्यन्ते ।
→ पुण्यानुबन्धिपुण्यं दत्ते वैराग्यकारणं भोगम् । ( वैराग्यकल्पलतायां २/९७) → जइ वि पुण्णपावक्खएण मुत्ती, तहावि तस्सा कुसलाणुबन्धिपुण्णमेव कारणं, न कुसलाणुबन्धिपुण्यविवागमन्तरेण तारिसा भावा लब्भन्ति, जारिसेसु पुण्णपावक्खयनिमित्तकुसलजोयाराहणं (समरादित्यकथायां)
→ पुण्यानुबन्ध्यतः पुण्यं कर्त्तव्यं सर्वथा नरैः । यत्प्रभावादपातिन्यो जायन्ते सर्वसम्पदः । (अष्टकप्रकरणे)
१९७०७०
सिद्धान्त रहस्य बिन्दुः
ஆரு
७०७०७ ६३