________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु यदि आत्मपरिणामादेव कर्मबन्धः, तर्हि सकलप्रायश्चित्तादिव्यवहारे विरोधापत्तिः स्यात् । तथा हि – हिंसादिजन्यपापकर्मापगमाय प्रायश्चित्तं क्रियते इति तत्त्वम् । पापकर्म च भवदुक्तनीत्यात्मपरिणामादेव, न तु बाह्यनिमिताद्, एवञ्च सति बाह्यमहन्निमित्तसत्त्वेऽपि परिणाममान्द्यादल्पकर्म बन्धे नाल्पं प्रायश्चित्तम्, तुच्छबाह्यनिमित्ते ऽपि च क्वचित्परिणामतीव्रतया सुबहुकर्मोपचयेनातिमहत्प्रायश्चित्तं दातव्यं स्यात् । किन्तु प्रवृत्तिप्रेक्षिव्यवहारनयप्रधानः प्रायश्चित्तव्यवहारश्च विपरीतोऽपि दृश्यत इति स्पष्टं विरोधः परस्परमिति चेत् ___न, यद्यपि कर्मबन्ध आत्मपरिणामानुसारेणैव, तथाऽपि आत्मपरिणामस्यानतिशयज्ञानिना जीतव्यवहारिणा स्पष्टं अज्ञायमानत्वात् आत्मपरिणाममात्रेण प्रायश्चित्तव्यवहारो दुःशक एव । तस्मात् तत्र व्यवहारनयाश्रयणं क्रियते ।।
तत्र च लघु प्रतिसे वायामशुभपरिणामस्य प्रायो मन्दत्वात् महत्तरप्रतिसेवायाञ्चाशुभभावस्य प्रायस्तीव्रत्वात् तदनुसारेणाल्पमधिकञ्च प्रायश्चित्तं दीयते । यद्यपि च भवदुक्तप्रकारेणात्र परिणामवैपरीत्यमपि भवत्येव, तथाऽपि तस्य प्रायोभावित्वात्, तज्ज्ञानस्य च दुःशकत्वात् यथामहत्प्रतिसेवनमेव प्रायश्चित्तदानव्यवहार इति । ____न चैवं सर्वथा व्यवहारप्राधान्यमेवात्रेत्यपि शङ्कनीयम्, निश्चयनयस्याप्याश्रयणात् । तथा हि - गीतार्था देशं कालं पुरुषमवस्थां आत्मपरिणामादींश्च प्रत्यक्षं दृष्ट्वा पृच्छादिनाऽनुमाय च तदनुसारेण हीनाधिकमपि प्रायश्चित्तं ददति, तत्र परिणामतीव्रताऽनुमाने बाह्यविराधनाऽल्पत्वेऽपि अधिकं प्रायश्चित्तं ददति, तन्मन्दताऽनुमाने च बाह्यविराधनाबाहुल्ये ऽपि अल्पं प्रायश्चित्तं ददति, शुद्धापवादानु माने च बाह्यविराधनाबाहुल्येऽपि न किमपि प्रायश्चित्तं ददतीत्यत्रात्मपरिणाममेव पुरस्कृत्य प्रायश्चित्तदानं क्रियते । केवलमात्मपरिणामः अनतिशयज्ञानिभिरनुमानगम्य एवेति । ___ यद्यप्येवं प्रायश्चित्तस्यानेकविधत्वम्, तथाऽपि कर्मबन्धस्तु आत्मपरिणामाधीन एव, यत्तु कुत्रचिदागमादिषु बाह्यवस्तुप्राधान्येन कर्मबन्धो निरुप्यते, तद् व्यवहारतो बाहुल्यमपेक्ष्य बोध्यम्, न तु सर्वथा परमार्थतः ।।
न चैवं बाह्यवस्तुनः सर्वथाऽकिञ्चित्करत्वमेव, व्यवहारस्य निश्चयजन्यत्वेन निश्चयजनकत्वेन चात्यन्तमादरणीयत्वादिति सूक्ष्ममीक्षणीयम् ।
ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः
६१