SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ஸ்ஸ்ஸ்ஸ்ஸ் शुभपरिणामवन्तमाश्रित्य कर्मनिर्जराकारणानि भवन्ति, यावन्ति च कर्मक्षयकारणत्वेन प्रसिद्धानि वस्तूनि तानि सर्वाणि अशुभपरिणामवन्तमाश्रित्य कर्मबन्धकारणानीति बाह्यवस्तुनि एकान्ताश्रयणं जिनशासनपरिज्ञानराहित्यावेदकमेव । इत्थं च सुदेवसुगुरुसुधर्मसकाशात् बहूनां आत्मोन्नतावपि केषाञ्चिदात्मावनतिरपि न निषेद्धुं शक्या, तत्र सुदेवाद् गोशालकस्य, सुगुरोः कूलवालकस्य, सुधर्माच्च बाह्यशोभन-क्रियारूपात् विनयरत्नादीनामात्मावनतिः सुप्रतीतैव । एवं कुदेवकुगुरुकुधर्मसकाशात् बहूनामात्मावनतावपि केषाञ्चिदात्मोन्नतिरपि न निषेद्धुं शक्या । तत्र कुदेवादात्मोन्नति: 'मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति' इति मानतुंगसूरिवचनात् सूपपादा । कुगुरोश्चात्मोन्नतिः अङ्गारमर्दकेनाभव्येन तच्छिष्याणामिव, कुधर्माच्च बाह्याशुभक्रियारूपात् शुद्धापवादप्रतिसेविकालिकाचार्यादीनामिवेति । यथा च सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक् श्रुतकार्यकारित्वात्सम्यक् श्रुतम्, तथैव सम्यग्दृष्टिपरिगृहीतं कुदेवकुगुरु-कुधर्माद्यपि सुदेवादिकार्यकारित्वादुपचारात् सुदेवादि इति सूक्ष्ममीक्षणीयम् । अधिकं तु अग्रे स्फुटीभविष्यति । केवलं निश्चयनयाभिप्रायवैशद्यार्थिना ओघनिर्युक्तिगाथा ४७ आरभ्य ५८ पर्यन्ताः सूक्ष्मप्रज्ञया परिभावनीयाः, व्यवहारनयैदम्पर्यार्थिना च ५९-६० द्वे गाथे निरूपयितव्य इति । she le ର ୟ ୟ ୟୁ କୁ se he way the ve (३७) अणुमित्तो वि न कस्सइ बंधो परवत्थुपच्चया भणिओ... (ओ.नि. ५८ ) pooooooooooooooooooooooooooooPos चन्द्र. कस्यचिदपि जीवस्य स्वल्पोऽपि कर्मबन्धो बाह्यवस्तुनिमित्तान्न भवति, किन्त्वात्मपरिणामादेवेति अत्र वृत्तिकृदभिप्रायः । युक्तञ्चैतत् । मिथ्यात्वाविरतिकषाया-दीनां कर्मबन्धप्रधानकारणानामात्मपरिणामविशेषत्वानपायात् । बाह्यक्रियादिरूपं मिथ्यात्वादिस्वरूपं तु औपचारिकमिति । ०७०७०७०७७७७७७७७०७०७०७०७०७७७७७७०७०७०७०७०७०७०७ ६० सिद्धान्त रहस्य बिन्दुः 1
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy