________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல तथाकल्पत्वादेवेत्यवश्यं मन्तव्यम् । न तु 'जीवरक्षार्थं तैर्हि प्राणास्त्यक्ता' इत्यादि हेतुहेतुमद्भावो लगयितव्यः । तथाकल्पश्च तेषां परमविशुद्धिकारकत्वा-निर्दोष एव ।। ___ यत्तु धर्मरुचिदृष्टान्तेनात्मरक्षां परित्यज्यापि षट्कायरक्षा साधनीयेति प्रसाधितं, तदपि मन्दम् । दृष्टान्तस्य सिद्धान्तासाधकत्वात् । दृष्टान्तो हि व्यक्तिविषयकः, सिद्धान्तस्तु समष्टिविषयक इति व्यक्तिगतविधिना समष्टिगतविधिप्रसाधनं न युक्तमिति भावः । यदि हि दृष्टान्तेन सिद्धान्तः प्रसाध्यते, तर्हि गणधारी गौतमस्वामी यावज्जीवं षष्ठं कृतवान, स्वयमेव च गौचरीं गतवानिति तदृष्टान्तेन सर्वैरपि आचार्यैर्यावज्जीवं षष्ठमवश्यं करणीयम्, गोचरीचर्या चावश्यमादरणीया स्यात् । तथा सुनक्षत्रसर्वानुभूतिभ्यां भगवदनुरागवशाभ्यां भगवनिषेधेऽपि सति गोशालकप्रतीकारः कृतः, भस्मसाच्च भूतौ इति दृष्टान्तबलेन सर्वैरपि साधुभिस्तथा करणीयं स्यात् । न च तौ न प्रशस्तौ इति शङ्कनीयम् । आयरियभत्तीरागो कस्स सुनक्खत्तमहरिसीसरिसो । अवि य सरीरं चत्तं न चेव गुरुपरिभवो सहिओ इत्युपदेशमालायां तत्प्रशंसायाः स्पष्टमेवोक्तत्वात् । __ वस्तुतस्तु स्थविरकल्पे 'षट्कायरक्षां परित्यज्यापि आत्मरक्षा विरतिरक्षणार्थं करणीया' इत्येवोत्सर्गमार्गः, तथाविधपरिणतिवशात् धर्मरुचिसदृशैः आत्मरक्षां परित्यज्यापि षट्कायरक्षा क्रियते, शास्त्रे चानुमोद्यते तदेतत्सर्वं अपवादमार्ग इति विपरीतमेव तत्त्वम् । जिनकल्पिकादीनां तु स्वकल्पानुसारेणैव प्रवृत्तत्वात् तत्रोत्सर्गापवादविचारावसर एव नेति सर्वं सुस्थम् ।
अत्र बहु वक्तव्यमस्ति, तत्तु विस्तरभिया नोच्यते ।
്തിനാറാം ന (३६) सर्व एव ये त्रैलोक्योदरविवर्तिनो भावा रागद्वेषमोहात्मनां
पुंसां संसारहेतवो भवन्ति, त एव रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवो भवन्तीति । (ओ.नि. ५४) இரோம் மேல் கால் மேல் வேod போன் மேக் மேக் மேக் மேல்திரப் போக்கில் மேல் மேலே
चन्द्र. स्पष्टमेव । इदमेवोक्तमाचाराङ्गे "जे आसवा ते परिसवा, जे परिसवा ते आसवा" इति । यावन्ति कर्मबन्धकारणत्वेन प्रसिद्धानि वस्तू नि, तानि सर्वाणि ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஷஜை सिद्धान्त रहस्य बिन्दुः
५९