SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ஸ்ஸ்ஸ்ஸ் १८४७०७ जलमध्य एव आकाशे पादं कृत्वा यदि तन्निष्प्रगलनं क्रियेत, तर्हि चिरकालं यावत् पादः आकाशे स्थिरं धारणीयो भवेत्, एतच्च जलप्रवाहे एकपादावष्टम्भेन स्थानं सर्वथा आत्मविराधनाकारीति न कथञ्चिदपि इष्टं भवेत् । तथा एवंविधरीत्या नद्युतरणे निष्प्रगलनरहितोत्तरणविधिकालसकाशादती -वाधिककालो भवेत्, ततश्चातीवदीर्घकालं जलसंस्पर्शादिजन्या विराधना भवेत्, सा चायव्ययालोचनाकारिणा मुनिना कथं आदरणीया स्यात् ? यदि हि जले प्रतिपदं निष्प्रगलनं युक्तं स्यात्, तर्हि सचित्तपृथिव्यामपि प्रतिपदं प्रमार्जनं युक्तं स्यात्, न च तत्र तथाप्रतिपादितम् । प्रत्युत सचित्तपृथिव्यां प्रतिपदमप्रमार्जनस्यैव विराधनाहानिकरत्वमधस्तान्निगदितमिति जलेऽपि निष्प्र गलनाऽभावस्यैव विराधनाहानिकरत्वमवश्यं मन्तव्यमिति । तथा यदा नद्यां नावा उत्तरणं कर्त्तव्यं भवेत्, तदा प्रथमं अधुनैव जलसम्पृक्ता जलभाविता या नौः, सा उपादेयत्वेन निगदिता, तत्र कारणं त्विदमेव यदुत जलभावितजलसम्पृक्तनौसकाशान्नदीजलजीवविराधनाऽल्पा, नदीजलस्य नावा सह सम्पर्क: नौलग्नजलान्तरित इति कृत्वा यथा हि साक्षात् शरीरे क्रियमाणोऽसिप्रहारः शरीरस्य बहुविराधनाकारी, प्रभूतस्थूलवस्त्रावृतशरीरे क्रियमाणोऽसिप्रहारस्तु अल्पविराधनाकारीत्येवं जलसम्पृक्तनाव: नदीजलस्य च मध्ये नौ संलग्न जलांशस्य नदीजलविराधनाऽल्पताप्रयोजकत्वं न दुर्घटम् । यथा चैवं शुष्कनौसकाशात् आर्द्रनौः जलविराधनाऽल्पताकारिणी, तथैव शुष्कपादसकाशात् आर्द्रपादः जलविराधनाऽल्पताकारीति पादनिष्प्रगलनेन तच्छुष्कताकरणं तु विराधनाबाहुल्य-कारित्वादनिष्टमेव स्यादिति स्पष्टम् । तदेवं जले एव निष्प्रगलनविधिरात्मसंयमविराधनाकारित्वेनानुपादेय इति । ननु तर्हि तीरे निष्प्रगलनं किमर्थं ? इति चेत् यदा पादः जलाद्भूमौ स्थापनीयः, तदा भूमिर्जलस्य परकायशस्त्ररूपेति पादलग्नं सर्वं जलं जलमध्ये एव निष्प्रगलनीयम्, येन भूमेः सकाशात्तद्विराधना न भवेत् । जलमध्ये निष्प्रगलज्जलं बहुसदृशजले एव निपतत् न विराधनाविषयं भवेत् । एवं द्वितीयपादस्यापि बोद्धव्यम् । इत्थं च अस्थण्डिलात्स्थण्डिलसङ्क्रमणे पादप्रमार्जनविधौ या युक्तिः, सैवात्र लगनीयेति निरर्गलोऽयं विराधनापरिहारप्रकार इत्यधिकं बहुश्रुतसकाशादवसेयमिति । ܦܗܘܦܘ ५४ ஸ்ஸ்ஸ்ஸ்ஸ் ७०७०७०७७०७०७०७ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy