SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல തിപ്പിടിപ്പിടിപ്പിച്ചിവില്ലിയിപ്പി (२९) महिका-धूमिकारूपोऽप्कायः । (ओ.नि.३०) ຂໍຄໍຂໍຍໍຂໍຍໍຂໍຍໍຂໍຂໍຂໍຍໍຂໍຍໍຂໍຍໍຂໍຍໍຂໍຍໍຂໍຂໍຍລໍ້ຂໍຍຍຍໍຂໍອ चन्द्र. धूम्मस' इति गुर्जरभाषाप्रसिद्धनामकस्य प्रस्तुताप्कायस्य सङ्खपतः स्वरूपमिदम् । परिपक्वानि जीमूतानि वर्षा वर्षन्ति, अपरिपक्वानि तु तानि यदा स्फुटन्ति, तदा तद्गर्भात्मकः सूक्ष्मोऽप्कायः प्रादुर्भवति, स एव धूम्मसापरनामिका महिका । इयं च महिका प्रायः शीतकालभाविनी, तथाऽपि तथाविधक्षेत्रादिवशतः ग्रीष्मवर्षाकालभाविन्यपि, ततश्च "महिका मार्गशीर्षादिचतुर्मासमात्रभाविनी, नान्यदा" इति न मन्तव्यम् । सा च यत्र भवति, तत्र चतसृष्वपि दिक्षु उपरि च सर्वत्र दृश्यते, न तु एकादिदिश्येव । तथा इयं अन्तरिक्षजोऽप्कायः, न तु भौमः, ततश्च भूमिस्थिततडाग-वनस्पतिप्रभृतिभ्य उत्तिष्ठन् श्वेतवर्णो वायुरूपेण दृश्यमानः पुद्गलपरिणामविशेषः 'बाफ'इत्यपरनामा न धूमिकेति विवेचनीयम् ।। तथेयं धूमिका सर्वत्र गच्छन्तीव प्रसरन्तीव प्रविशन्तीव दृश्यते । अस्यां च सत्यां वसत्यादिकं सर्वमप्कायभावितं भवति, ततश्च तदा आगमननिर्गमनस्वाध्यायादिकं सर्वं वर्जनीयम् । उपाश्रयस्य सर्वाभ्यन्तरस्थाने सर्वत्र कुड्यपरिक्षिप्ते सकल्पां कम्बलिकामावृत्य स्थिरैः भवितव्यम् । अक्षिनिमेषादिकमपि तत्र न कर्त्तव्यम् । केवलं मनसि चिन्तनादिके तु क्रियमाणे न दोषः । तद्विघटनानन्तरं च स्वाध्यायादिकं सर्वं क्रियताम्, न दोषः । कारणवशाद् गमनादिकं यद्यवश्यं कर्त्तव्यं स्यात्, तहि यथाशक्यं यतना कर्त्तव्या, ये न विराधनाऽल्पा भवेत् । अस्याश्च प्रभूतासङ्ख्येयजीवात्मकत्वात् तद्विराधनापरिहारे न लेशतोऽपि प्रमादः कर्त्तव्यः, सर्वथा विराधनापरिहारोपायपरायणैर्भवितव्यमित्यधिकं बहुश्रुतसकाशाद् विज्ञेयमिति । popropropsoproproproproacopropoopsopropsopropoie (३०) उदकसङ्घट्टनं जवार्धप्रमाणम् (ओ.नि. ३३) aoinsanshopkinositosdom and inshasansol insionEndlines चन्द्र. अत्र जङ्घा पादतलादारभ्य जानुं यावत्शरीरावयवः, तदर्धप्रमाणं च उदकसङ्घट्टनम् । यद्यपि जानोराभ्य कटिं यावच्छरीरावयवः जङ्घापदेन प्रसिद्धः, तथाऽपि லலலலலலலலலலலலலலலலலலலலலலலலலலலல ५२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy