________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல तद्वस्त्रात्सम्यक्स्फेटयित्वा पश्चात् तद्वस्त्रस्य परिभोगः कर्त्तव्यः, सम्यक्स्फेटनं नाम स्थावरजीवानां यथा स्पर्शादिकं न भवेत् तथा यतनया स्फेटनमिति । यदि च प्रभूतभागस्य स्थावरसंसक्तत्वात् तत्स्फेटने वस्त्रस्य परिभोग्यत्वमेव विघटेत, तर्हि न तत्स्फेटनं कर्त्तव्यम्, किन्तु अन्यवस्त्राभावे सति स्थावरजीवानां स्वयं च्यवनभवनं यावत्प्रतीक्षा कर्त्तव्या । आगाढकारणवशात्तत्परिभोगस्यावश्यकत्वे तु यथा स्थावरजीवविराधना अल्पा सम्भवेत् तथा यतनातः तत्परिभोगः कार्यः, तदनन्तरं च स्थावरजीवानां यावती विराधना तत्परिभोगेऽभवत्, तावद्विराधनायाः गुरुसकाशे आलोचना करणीया, प्रायश्चित्तं च यथागुरुदत्तं सम्यग्वोढव्यमिति ।
एवं वर्षाकाले वस्त्रादीनां निगोदसंसक्तत्वे सति निर्वातस्थाने तानि वस्त्रादीनि विस्तारणीयानि, भाद्रपदमासानन्तरं वर्षाऽभावात् कालादिवशतः ते जीवा कतिचिद्दिनानन्तरं स्वयमेव च्यवनमाप्नुवन्ति, तथाऽपि सम्यग्दिनपरिमाणस्या-ज्ञायमानत्वात् आश्विनशुक्लचतुर्दशी यावत् तानि वस्त्राणि न परिभोग्यानि, तदनन्तरं च आश्विनमासिकरवितापाधिक्येन जीवानां च्यवनं, ततश्च वस्त्रस्य प्रक्षालनानन्तरं परिभोग्यत्वं भवति, तथापि तदनन्तरं गीतार्थमापृच्छ्य यथायोगं कर्त्तव्यमिति ।
तथा योऽन्यवस्त्रलाभोऽनन्तरं प्रतिपादितः, स यदि निर्दोषो भवति, तदैवानन्तरोक्तः विधिर्बोद्धव्यः, यदि च अन्यवस्त्रलाभः क्रीताभ्याहृतपश्चात्कर्मस्थापनादिप्रभूतदोषदुष्टो भवति, तर्हि आयव्ययौ विचिन्त्य यथा संयमस्फातिर्भवेत् तथा अन्यवस्त्रपरिभोगो जीवसंसक्तवस्त्राज्जीवानुद्धृत्य तत्परिभोगो वा यथायोगं कर्त्तव्य इति अधिकं बहुश्रुतसकाशादवसेयमिति ।
pepropologiecepsmetapgapgopclipopropoleoneporn
(१८) प्रतिलेखनं प्रतिलेखना, प्रति प्रति आगमानुसारेण निरूपणमित्यर्थः । (ओ.नि. ४)
தமல் மேல்மேல் திரும்பப்பரே கரம் படிப்போம் பக்கமும் चन्द्र. इदमत्र स्पष्टीकर्त्तव्यं तृतीयायां भाष्यगाथायां वृत्तौ 'अक्षरानुसारेण प्रतिनिरीक्षणमनुष्ठानं च यत्सा प्रतिलेखना' इति प्रतिपादितमस्ति । तत्र केचिदित्थं ஓலைவை ஓஒஒஒஒஒஒஒஒஒஒஒஒ ஷைலஜ सिद्धान्त रहस्य बिन्दुः
३७