________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु हीनापराधप्रकटनं तावन्मायामृषादिदोषसम्भवात् न कर्त्तव्यमिति मन्यामहे । परन्तु यावत्प्रमाणोऽपराध आसेवितः, पश्चात्तापातिरेकेण संवेगनिर्वेदातिरेकेण च तदधिकापराधकथने तु गुण एव, किं तस्यापि निषेधः क्रियते ? स्त्रीरुपदर्शन-मात्रापराधेऽपि स्त्रीस्पर्शापराधकथनं संवेगातिशयाद् गुणकरमेवेत्येवमन्यत्राऽप्यपराधे बोध्यमिति चेत् । __न, अविवेकस्य परमापदां स्थानत्वात्, तदुक्तं जैनेतरग्रन्थेऽपि "सहसा न विदधीत क्रियामविवेकः परमापदां पदम्" इति । किञ्च जिनप्रवचने ऽपि कृतापराधादधिकापराधकथनं अर्थान्निषिद्धमेव । तथा हि "कड कडत्ति भासिज्जा, अकडे नो कडत्ति य" इति उत्तराध्ययनवचनम् । तत्र हि "यत्पापं कृतं, तत्पापं 'कृतं मया' इत्येवं गुरोरग्रे भाषेत शिष्यः, यच्च पापं न कृतं, तत्पापं 'मया न कृतमेतद्' इत्येवं गुरोरग्रे भाषेत शिष्यः" इति भावार्थः । अत्र हि "अकृतेऽपि पापे संवेगातिशयात् 'कृतं मया पापं' इति स्वीकरणीयम्" इति नोक्तम्, प्रत्युत तस्य निषेध उक्तः, एवंप्रकारेण कृतेऽपि पापे यावत्प्रमाणं पापं कृतं, तावत्प्रमाणादधिकं तु पापं अकृतमेवेति “तत्पापं न मया कृतं" इत्येव वक्तव्यं, न तु संवेगातिशयादधिकपापस्वीकरणं युक्तमिति ।।
ननु तर्हि 'अणुसमं स्वपापं मेरुसमं दर्शनीयं' इत्यादिलोकोक्तिनां कः परमार्थः इति चेत् मेरुसमाने पापे यावान्पश्चात्तापो भवति, तावान्पश्चात्तापोऽणुसमेऽपि पापे कर्तव्यः इति परमार्थः, यदि वा अणुसमं स्वपापं संवेगवैराग्याथ मेरुसमं स्वयं दर्शनीयमेव, न तु गुरोः प्रदर्शनीयमपि इति परमार्थः । यद्यपि कदाचित्कुत्रचित्कस्यचित् स्वापराधादधिकपापस्वीकरणे अकृतापराधस्वीकरणे च भावविशेषाल्लाभोऽपि भवेत्, तथाऽपि नेयमेकपदी सर्वेषामनुसरणीया, राजमार्गस्यैवोत्सर्गतो अनुसरणीयत्वात् । अत एव भर्तृहरितन्मित्रराजयोः संन्यासग्रहणानन्तरं दर्शनोत्सुकप्रभूतजनागमननिवारणार्थं परस्परं केशाकेशिकरणं न जिनमतविदामालम्बनीयम्, जिनशासनापभ्राजनारुपत्वेन प्रभूतजनानां दुर्लभबोधित्वापादकत्वात्, न वाऽतिथिजनभक्त्यर्थं निर्धनस्त्रियाः स्वशीलमूल्यदानेन धान्यादिग्रहणं जिनमतरहस्यवेतृणां आलम्बनीयम् अतिथ्यभक्तिसकाशात्स्वशीलभ्रंशस्यातिगुरुदोषत्वात्, शक्तावसत्यां अतिथ्यभक्तेर्वस्तुतो दोषत्वस्यैवाभावाच्च, न वा चक्षुषा सविकारं परस्त्रीदर्शनापराधानन्तरं पश्चात्तापभावेन चक्षुषोः मरिचप्रक्षेपणं स्वामिविवेकानन्दकृतं सुमतिमतां स्वीकरणीयम्, कदाचिदन्धत्वसम्भवेन यावज्जीवं प्रभुदर्शनाद्यभावजीवरक्षापरिपालनाभावादिदोष-बाहुल्यभावात् । यद्यपि मुग्धदशायां कृते तादृशेऽविवेकसम्पन्नेऽनुष्ठाने दोषबहुलत्वम्, तथापि यदि तत्र तेषां मार्गानुसारी कश्चिद्भावो विद्यते, तर्हि तदनुमोदनं तु न दुष्टम् । अत एव मुक्त्यर्थं भृगुपातकाशीमरणादीनां 2002029999999999990000000X8990000000000000000000 सिद्धान्त रहस्य बिन्दुः
३५