________________
ஸ்ஸ்ஸ்ஸ்ஸ்
44
'चरणकरणपहाणा ससमयपरसमयमुक्कवावारा: । चरणकरणस्स सारं निच्छयसुद्धं न याणंति" इति ।
चारित्रपालनतत्पराः स्वसमयपरसमयपरिज्ञानप्रयत्नविकलाः साधवः चारित्रस्य निश्चयशुद्धं सारं न जानन्तीति प्रकृतगाथाभावार्थः । तथा च द्रव्यानुयोगं विना चारित्रशुद्ध्यभावात् चारित्रशुद्ध्यर्थं अपि द्रव्यानुयोग आवश्यक एवेति ।
"
ननु तथाऽपि 'युक्त्यनुगतमेव ग्रहीतव्यम्' इत्यत्र एवकार एकान्तप्रतिपादको न युक्तः, यतो हि द्विविधाः पदार्थाः जिनप्रवचने प्रसिद्धाः आज्ञाग्राह्या युक्तिग्राह्याश्च । तत्र ये पदार्थाः केवलं जिनाज्ञयैव ग्राह्या भवन्ति, न तत्र काश्चिद् युक्तयो विद्यन्ते, ते पदार्था आगमग्राह्याः, ये तु जिनाज्ञयेव युक्त्याऽपि गृह्यन्ते, ते आज्ञायुक्त्युभयग्राह्याः पदार्था:- 'युक्तिग्राह्या' इति निगद्यन्ते । ततश्च यश्चारित्रांश: आज्ञाग्राह्यः, तदंशे चारित्रम् आज्ञाग्राह्यमेव, न तु युक्तिग्राह्यमपि, ततश्च आज्ञाग्राह्यंऽशे चारित्रम् आज्ञाग्राह्यं, युक्तिग्राह्यंऽशे चारित्रम् युक्तिग्राह्यमित्येवंविधविवेकसद्भावात् “चरणमपि युक्त्यनुगतमेव ग्रहीतव्यम्..." इत्येवंरूपेण एवकारगम्य आग्रहो न युज्यत इति चेत्
सत्यं, यश्चारित्रांशः युक्तिग्राह्यः तस्मिन्नेवांशे प्रकृतवचनस्य प्रवृत्तत्वान्न दोषः । "युक्तिग्राह्येऽशे चारित्रमपि युक्त्यनुगतमेव ग्राह्यम्" इत्येव प्रकृतवचनस्य तात्पर्यं मन्तव्यम्, तथा च न कश्चिद् दोषः ।
७७७०७७७
इदमप्यत्र सूक्ष्ममीक्षणीयं युक्तिग्राह्येऽप्यंशे तथाविधक्षयोपशमाभावेन युक्त्यस्फुरणात् तदंशे चारित्रमाज्ञाग्राह्यमेव भवति, युक्तिस्फुरणे तु पश्चात्तदेव युक्तिग्राह्यमपीत्यत्र बहु वक्तव्यम्, तच्चाग्रे यथावसरं वक्ष्यते ।
३४
७०७०७०७
we are she same she le sue in non a nua e disine two sid
(१६) अपराधमर्यादया लोचनं दर्शनमाचार्यादेरालोचना इत्यभिधीयते । (ओ.नि. ३ )
டும்கம்படுSSSSSSS
०७०७०७०७०७०७०७
7ம்
चन्द्र. योऽपराधो यावत्प्रमाणः कृतः, स अपराधस्तावत्प्रमाण एव गुरोरग्रे पश्चात्तापपूर्वकं प्रकटनीयः, न हीनो नाप्यधिक इति ।
०७०७०
०७०७०७०७०७०७०७
सिद्धान्त रहस्य बिन्दुः