________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல allpopropropropsioplgopsopgopeoppopgopgopgopeopropsopgoogiegory
(१५) द्रव्यानुयोगे सति दर्शनशुद्धिर्भवति, युक्तिभिर्यथाऽवस्थितार्थपरिच्छेदात्, तदत्र चरणमपि युक्त्यनुगतमेव
ग्रहीतव्यं, न पुनरागमादेव केवलादिति । (ओ.नि. भा.७) ຂໍຍໍຂໍຂໍພິພາຂໍຂໍຂໍຂໍຂໍ້ ຂໍສູ້ຂໍຍໍຂໍຍໍຂໍຮູ້ ຂໍຍອ້ງຍໍຂໍຍໍຍຜຮູ້
चन्द्र. इदमत्र तात्पर्यम् । सम्यक्त्वं तावद् द्रव्यभावभेदाद् द्विविधं, तत्र परमार्थापरिज्ञानेऽपि भगवद्वचनतत्त्वरुचिराद्यं सम्यक्त्वं, परमार्थपरिज्ञानं च द्वितीयम् । ततश्च यावद् युक्तिभिः परमार्थपरिज्ञानं न भवति, तावद् द्रव्यसम्यक्त्वं, यदा तु युक्तिभिः परमार्थपरिज्ञानं भवति, तदा भावसम्यक्त्वम् । ततश्च युक्तिभिः परमार्थपरिज्ञाने सम्यक्त्वं निर्मलीभवतीति निश्चितम् । युक्तिभिः परमार्थपरिज्ञानं च द्रव्यानुयोगात् एवेति युक्तमुक्तं द्रव्यानुयोगे सति... इत्यादि ।
न चैतत्स्वमनोमात्रविजृम्भितम् । प्रतिमाशतके पञ्चदशकाव्ये महोपाध्यायैः तथोक्तत्वात् । इदमपि च तत्रोक्तं → अविविक्तषट्कायपरिज्ञानेऽपि चरणकरणतत्त्वपरिज्ञानपूर्वकतत्पालनेऽपि च स्याद्वादेन विविक्तषटकायपरिज्ञानं विना स्वसमयपरसमयविवेचनं विना चौघतस्तद्रागमात्रेण द्रव्यसम्यक्त्वं सम्मतौ निर्णीतम् - इति ।। ___ अत्र विविक्तं = स्याद्वादेनानेकप्रकारतया विद्यमानम् इति स्थूलोऽर्थः । तथाहि 'षटकाया एव सन्ति' इति तु षटकायपरिज्ञानं न सम्यक् स्थावरकायस्त्रसकायश्चेत्येवंरुपेण कायद्वयस्यापि सम्भवात्। एवं 'षटकायाः सन्त्येव' इत्यपि न सम्यक्, “षटकायाः प्रत्येकमनन्तवर्षायुष्काः न सन्ति, षट्कायाः प्रकटीभूतसिद्धस्वरुपा न सन्ति" इत्येवं परमाणुद्रव्यरूपत्वेन अलोकक्षेत्रगतत्वेन पुनः सिद्धस्वरुपप्राकट्यभावेन चोपाधिना षट्कायस्यासत्त्वस्यापि विद्यमानत्वात् । अत एव 'एकान्तेन हि षट्कायश्रद्धानेऽपि न शुद्धता' इति अध्यात्मसारे निगदितम् । ___ ननु दर्शनशुद्ध्यर्थं द्रव्यानुयोग आवश्यक इति तावत्सत्यं, परन्तु चारित्रार्थं तु द्रव्यानुयोगस्य काऽऽवश्यकता ? यदत्र 'चारित्रमपि युक्त्यनुगतमेव ग्रहीतव्यम्' इति उद्घोष्यते इति चेत् द्रव्यानुयोगं विना चारित्रसारस्य निश्चयशुद्धस्यासम्भवात् 'चारित्रमपि युक्त्यनुगतं ग्रहीतव्यम्' इति उक्तमिति जानीहि । तथा चोक्तं सन्मतितर्के कविश्रेष्ठैः सिद्धसेनदिवाकरसूरिभिः மூஜைஷைலுஷைலு ஷைலைஓஷைஷஷ सिद्धान्त रहस्य बिन्दुः
३३