SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல अशोभनास्वपि च कालावस्थासु केवलज्ञानप्राप्तौ चारित्रपरिणामप्राप्तेः सुलभतरत्वात् । अयं भावः, यदि हि सर्वास्वपि कालावस्थासु मुनयः केवलं प्राप्ताः, तर्हि अशोभनतिथ्यादिष्वपि केवलं प्राप्ता इति निश्चितमेव । ततश्च यदि ह्यशोभनतिथ्यादिष्वपि केवलमपि प्राप्यते, तर्हि चारित्रप्रदानार्थं शोभनतिथ्याद्याग्रहो निरर्थक इति चेत् निश्चयनयमतविषयमेतदध्यात्मसारवचनं न व्यवहारमतविषयकवचनं निराकर्तुमलं, स्वविषये उभययोः प्रामाण्यस्याक्षतत्वात् । अयमाशयः यद्यपि अशोभनतिथ्यादिष्वपि केवलप्राप्तिर्भवेदेव, तथाऽपि सा कदाचित्कस्यचिदेव । तत्सकाशाच्छोभनतिथ्यादिषु केवलप्राप्तिमन्तोऽतिप्रभूता इति प्रायोवृत्त्या शोभनतिथ्यादिष्वेव केवलादिप्राप्तिसम्भवात् प्रायोभाविपदार्थनिरुपकेन व्यवहारनयेन क्रियमाणः शोभनतिथ्यादौ प्रव्रज्याप्रदानग्रहो न निरर्थकः । अन्यथा हि भोजनादपि कस्यचिन्मरणभावात् "जीवनार्थं भोजनं विधेयं' इति वचनस्यापि निरर्थकत्वापतिः । ननु तहि 'नास्त्यकालो धर्मस्य' इत्यादि वचनानां का गतिः ? आलस्यादिना 'अयं न धर्मानुकूलः कालः, तस्मात्तत्कालाय प्रतीक्षा कर्त्तव्या' इत्यादि कदालम्बनं गृहीत्वा धर्मेऽयततां प्रोत्साहनार्थं निगद्यमानमेतद्वचनं, न तु अशोभनतिथ्यादिष्वपि चारित्रग्रहणविधायकमिति विवेकः । वस्तुतस्तु अशोभनकालगृहीतस्य चारित्रस्य निष्फलतासम्भवाच्चारित्रसाफल्यार्थं कालविलम्बकरणमपि सफलचारित्रप्रापकत्वादुपचाराच्चारित्रानुष्ठानमेवेति अशोभनकाले चारित्राग्रहणमपि चारित्रग्रहणमेवेति तदाऽपि धर्मोऽस्त्येवेति न किञ्चिदनुपपन्नम् ।। किञ्च अवसर्पिण्यां प्रथमद्वितीयतृतीयारकेषु धर्माभावः, चतुर्थे मोक्षपर्यन्तफलप्रापकधर्मसद्भावः, पञ्चमे तु चारित्रसद्भावेऽपि मोक्षाभावः, सकलतीर्थकृतां रात्रावेव शोभनतिथ्यादिष्वेव च जन्म, इत्येवमादिकं सर्वं कालस्यापि धर्म प्रति किञ्चित्करताज्ञापकमिति न निश्चयनयवचनावलम्बनेन तदुपेक्षोचितेति । इदमप्यत्र न विस्मर्तव्यं यदुत कालवत् भावस्यापि धर्मं प्रति किञ्चित्करत्वमस्त्येव, प्रत्युत भावस्य धर्मं प्रति प्रधानकारणत्वात् तमुपेक्ष्य कालापेक्षा तु अजक्रयार्थं हस्तिविक्रयणवत् मूर्खतासूचिकेति । अत एव यथा जीवदयादिस्वरुपसंयमपरिणामस्य तदनुकूलसंयमाचारस्य च बाधा न भवेत् तथा कालापेक्षा समादरणीयेति । यद्यप्येवं तत्त्वमस्ति, तथापि उत्सर्गापवादप्रचुरत्वा-ज्जिनप्रवचनस्य सर्वथा सर्वत्र संविग्नगीतार्थवचनमनुसरणीयमिति उपदेशः । லலலலலலலலலலலலலலலலலலலலலலலலலலலல ३२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy