________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல भवतीयं जिज्ञासा 'किं लक्षणं मूलोत्तरगुणयोः ?, येन तयोविवेकः कर्तुं शक्यते इति चेत्
सत्यं, अत्र बहवोऽभिप्रायाः श्रूयन्ते । तथाहि साक्षात् हिंसाद्यकरणं मूलगुणः, साक्षात्तत्करणं मूलगुणभङ्गः, हिंसाया अकारापणमननुमोदनं च उत्तरगुणः, हिंसायाः कारापणमनुमोदनञ्चोत्तरगुणभङ्गः । एवं तावदेकोऽभिप्रायः ।
येन दोषसेवनेन मूलप्रायश्चितं भवति, स मूलगुणभङ्गः, येन च छेदपर्यन्तमेव प्रायश्चित्तं भवति स उत्तरगुणभङ्गः । ततश्चानेकश आधाकर्मादिभक्षणेऽपि मूलप्रायश्चित्तप्रतिपादनात् यत्सङ्ख्याके आधार्मिकभक्षणे मूलप्रायश्चित्तं, तत्संख्याकं आधाकमिकभक्षणमपि मूलगुणभङ्ग एव । सकृत्कीटिकादिवधे च मूलप्रायश्चित्ता-प्रतिपादनात् साक्षात्कीटिकादिवधोऽपि उत्तरगुणभङ्ग एव । यदा तु तत्राऽपि मूलप्रायश्चित्तं भवेत्, तदा सोऽपि दोषः मूलगुणभङ्ग एवेत्येवं भङ्गानुसारेण भङ्गविषयाणां मूलोत्तरगुणत्वं समवसेयमिति । एष द्वितीयोऽभिप्रायः । _ 'एनं जीवं मारयामि' इति जीवघातबुद्ध्या हिंसाकरणकारापणादि मूलगुणभङ्गः, जीवघाताध्यवसायाभावेऽपि आहारसंज्ञादिपरवशतया हिंसाकरणकारापणादि उत्तरगुणभङ्गः । अत एवाधाकर्मणि जीवघातसद्भावेऽपि आहारसंज्ञापरवशकृतत्वा-देवोत्तरगुणत्वं, न तु मूलगुणत्वमिति । एष तृतीयोऽभिप्रायः ।
ननु किमत्र तत्त्वं, कोऽभिप्राय: सम्यगिति न विवेकः कर्तुं पार्यते इति चेत् प्रथमोऽभिप्रायस्तावन्मिथ्येति अस्मदभिप्रायः । तथाहि हिंसादिकरणकारापणानुमोदनानि त्रीण्यपि मूलगुणभङ्गत्वेन व्यवहारादौ स्पष्टमेव प्रतिपादितानीति हिंसादिकरणमेव मूलगुणभङ्गः, न कारापणानुमोदने इति प्रथमोऽभिप्रायो शास्त्रबाधितत्वादुपेक्षणीयः ।।
तृतीयोऽप्यभिप्रायो नियुक्तिकः, यतो हि आहारसंज्ञापरवशकृतत्वादाधाकर्मण उत्तरगुणभङ्गत्वे तु मैथुनसंज्ञापरवशकृतत्वान्मैथुनस्यापि उत्तरगुणत्वमापद्येत, न च मैथुनसंज्ञापरवशकृतस्य मैथुनस्य हिंसात्मक मूलगुणभङ्गत्वाभावेऽपि अब्रह्मात्मकमूलगुणभङ्गत्वानपायादेव मूलगुणभङ्गत्वमिति वाच्यम् एवं सति आहारसंज्ञापरवशकृतस्याधाकर्मणो ३ऽपि हिंसात्मकमूलगुणभङ्गत्वाभावेऽपि मूर्छारूपपरिग्रहात्मकमूलगुणभङ्गत्वानपायादेव मूलगुणभङ्गत्वमित्यस्यापि सुवचत्वात् ।
ततश्च द्वितीयोऽभिप्रायः कथञ्चित्संघटत इति ।
तथा च तत्पाठः मूलगुणासेवनेऽपि पुलाकादीनामेवं चरणं सूत्राज्ञां परिगृह्य स्वभावसिद्धं ज्ञेयं, तादृग्दशायामपि तेषां चारित्रपातप्रतिबन्धकसंयमस्थानसत्त्वात् । क्वचिदेवं अन्यथाभावदर्शनेऽपि मूलगुणभङ्गे चारित्रभङ्गनियमस्य सार्वत्रिकस्याविरोधात् லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
३०