________________
०७०७०७७७७७७७७७७७७०७०७०७०७७०७०७७०७०७०७०७०७०७
(११) इह द्विरूपः क्रोधः उदयगत उदीरणावलिकागतश्च, तत्रोदयगतनिग्रहः क्रोधनिग्रहः एवं मानादिष्वपि वाच्यं यस्तु उदीरणावलिकाप्राप्तस्तस्योदय एव न कर्त्तव्य क्षान्त्यादिभिर्हेतुभिरिति । (ओ.नि. भा. २ )
>
បើជំនីជីនីជីជី (SpellspSy5p5epesos@psloops 5 चन्द्र. ननु यः क्रोध उदयगतः, तस्य निग्रहः कर्तुं कथं शक्यते इति चेत्
उदयगतः क्रोधो नाम मनसि क्रोधः समुत्पन्नः, स च वचनकाययोः संक्रामन् निवारणीय इत्येष उदयगतक्रोधस्य निग्रहः । यस्तु क्रोधः उदीरणावलिकायां प्रविष्टः, स उदयाभिमुखोऽपि सन् नोदयमागतः, अतः क्षमादिहेतुभिः यथा तस्य विपाकोदय एव न भवेत् तथा कर्तुं शक्यते इति । एतच्च कर्मप्रकृतिप्रभृतिग्रन्थविदां सुप्रतीतमिति संक्षेपः ।
മഹാ
ഉത്ത (१२) मूलगुणसद्भावे करणत्वमस्य, नान्यथेति । (ओ.नि. भा. ३ )
Doooooooooooooooooooooooooood
चन्द्र. शर्कराऽभावे मिष्टान्नत्वस्य प्रजाऽभावे राजत्वस्य, अक्षराऽभावे पुस्तकत्वस्य चोक्तिरिव मूलगुणाभावे करणत्वस्योक्तिर्न तात्विकी, स्वकार्याकरणात् अतिस्थूलव्यवहारमात्रस्यापारमार्थिकत्वात् ।
ननु किं नाम मूलगुणत्वं किं च करणत्वं उत्तरगुणत्वात्मकमिति स्पष्टीक्रियताम् इति चेत् पञ्चमहाव्रतादयो मूलगुणा: पिंडविशोध्यादयश्चोत्तरगुणा इति स्पष्टमेव, किं तत्र स्पष्टीकर्त्तव्यम् ? ननु 'के मूलगुणाः' इति न वयं पृच्छामः, किन्तु मूलगुणस्य लक्षणं किं ? उत्तरगुणस्य च लक्षणं किं ? इति जिज्ञासामहे इति चेत्
किमत्र जिज्ञासायां कारणमित्येव तावत्पृच्छामः ।
ननु इदं कारणम् I पिण्डविशोधिराधाकर्मिकादित्यागरूपा प्रथमे महाव्रतेऽहिंसारूपेऽन्तर्भवतीति तत्र मूलगुणत्वमेव सङ्घटते, नोत्तरगुणत्वम् । एवं समितिप्रभृतिष्वपि वाच्यम् । ततश्च मूलोत्तरगुणयोर्न तात्विकं भेदं पश्यामो विना नामभेदात् । ततश्च
१७७२७०७
७७७०९७०७०७
७०७
सिद्धान्त रहस्य बिन्दुः
२९