________________
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்.
ஸ்ஸ்ஸ்ஸ்ஸ்
निर्व्याजबन्धवः अशरणशरणीभूता एते वैयावृत्त्यकारिणः, सर्वथा खलु धन्यातिधन्यं जिनशासनं, यत्रैते महात्मानो विद्यन्ते" इति लोकमध्ये बोधिबीजवपनेनानेकेषां प्रेत्य जिनधर्मप्रापणात्परोपकारकमपि भवतीति ।
विनयश्च परमपदाकर्ष कनिर्मलबो धैककारणप्रवचनग्रहणपात्रतासम्पादनात्, मानकषायापकर्षाधानात् जिनशासनमूलत्वेन स्वकर्तृणां जिनशासनप्रवेशकत्वात्, अन्यस्मादपि च तत्तदनुभवसिद्ध-कारणात्स्वोपकारकं भवत्येव । तथा रत्नाधिकानां सन्तोषकत्वात्, विनयदर्शकानां विनयकरणप्रोत्साहकत्वात्, अविनयिनां स्वदोषदर्शनसम्पादकत्वात्, जिनशासनप्रभावनानिमित्तत्वाच्च परोपकारकश्च भवतीति ।
यद्यप्यन्यानि अपि तपांसि स्वपरोपकारकाणि कथंचिद् भवन्ति, तथाऽपि यथाऽनयोः स्व-परोपकारकत्वं, न तथाऽन्येषामिति तयोः प्राधान्यं निर्बाधमेवेति ।
नन्वेवं विनयवैयावृत्त्ययोः प्राधान्येऽङ्गीक्रियमाणे "नवि अत्थि नवि य होइ सज्झायसमं तवोकम्मं” इति स्वाध्यायतपसः सर्वत उत्कृष्टताप्रतिपादकस्या-गमवचनस्य का गतिरिति चेत्
स्वमात्रोपकारकत्वे स्वाध्यायस्योत्कृष्टत्वं, स्वपरो भयोपकारकत्वे तु विनयवैयावृत्ययोरुत्कृष्टत्वमित्येषा गतिरिति गृहाण ।
अयं भावः स्वाध्यायस्य स्वोपकारकत्वं सहस्रमूल्यं, विनयवैयावृत्त्ययोः स्वोपकारकत्वं नवशतमूल्यं, ततश्च स्वमात्रोपकारकत्वचिन्तायां स्वाध्यायस्यैव प्राधान्यं । परन्तु स्वाध्यायस्य परोपकारकत्वं नवशतमूल्यं विनयवैयावृत्ययोस्तु परोपकारकत्वं सहस्रद्वयमूल्यं । ततश्च स्वपरो भयोपकारकत्वचिन्तायां तु स्वाध्यायस्य एकोनविंशतिशतमूल्यत्वादनुत्कृष्टत्वं, विनयवैयावृत्ययोश्च एकोनत्रिंशच्छतमूल्यत्वा-दुत्कृष्टत्वमिति । एतच्च स्थूलव्यवहारमाश्रित्य दृष्टान्तमात्रतो निरुपितम् । अन्यथा तु प्रतिव्यक्ति विशेषोऽपि सम्भवत्येवेति ।
अथ वा यथा ग्रामान्तरं गन्तुकामस्य तुरग एव प्रधानः, न तु प्रासादः, किन्तु विश्रामं कर्तुकामस्य प्रासाद एव, न तु तुरगः, फललाभस्तु यथायोगमुभयत्रापि । एवं ग्लानत्वादिदशायां वैयावृत्त्यादिकं प्रधानं, अन्यदा तु स्वाध्यायः, फललाभस्तु यथायोगमुभयत्रापीति ।
७७७०७७०७०७०७०७०
२८
७७७०७०७०
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
सिद्धान्त रहस्य बिन्दुः