________________
ஸ்ஸ்ஸ்ெ
७७७०७
तत्रोत्सर्गत: प्रथमभङ्गवर्ती अनुज्ञातः, अपवादतश्च तृतीयभङ्गवर्ती, न त्वन्ये, अगीतार्थतालुब्धताऽन्यतरदोषसत्त्वेन भोजनपरिवेषणानर्हत्वात् ।
स च प्रथमभङ्गवर्ती तृतीयभङ्गवर्ती वा कस्य साधोः किं प्रायोग्यं, किं वा प्रतिकूलमित्येतद् सर्वं उपयोगविषयं कृत्वा परिवेषयति भोजनम् । यमलजननीसादृश्यं च तस्येत्थं यथा जननी स्वभावत एव लघौ गुरौ च पुत्रे समस्नेहा, तत्रापि यमले तु सुतरां समस्नेहा, पुत्रद्वयस्य समकमेव जननात् । एवं भोजनपरिवेषकः सर्वेष्वपि साधुषु बालेषु युवषु वृद्धेषु रत्नाधिकेषु अवमरात्त्रिकेषु समरात्निकेषु गीतार्थेषु अगीतार्थेषु धर्मकथादिलब्धिसम्पन्नेषु तद्रहितेषु शोभनस्वभावेषु खग्गूडेषु परिणतेषु अपरिणतेषु अतिपरिणतेषु अन्येष्वपि चानेकप्रकारेषु साधुषु समानस्नेहो भवति, अन्यथा स्वयं गीतार्थतायामलोभतायां च सत्यामपि तत्तत्साधुरागद्वेषादिवशतो भोजनपरिवेषणेऽनुचितप्रवृत्तिभावात् सकलगच्छः कलहविकथादिरतोऽपि स्यादिति ।
ननु परिर्वेषकस्य गीतार्थताऽभावे को दोष इति चेत् बालादिमध्ये कस्य किमुचितं अनुचितं वा ? कस्य किं दातव्यं किं न दातव्यमित्यादिज्ञानाभावादौचित्येन परिवेषणासम्भवात् ग्लानिवृद्धिसंक्लेशादिदोषा इति । एवं अलोभताऽभावे स्वयमेवासक्तचित्ततया स्वेष्टं सकलमपि स्वयमेव गृह्णीयादिति गच्छसाधूनामुचित- द्रव्याद्यप्राप्तेः शरीरहानेः तद्द्द्वारा शुभभावहानेश्च सम्भवादित्येवमादयो दोषाः स्वयं विचारणीयाः ।
-
तस्मात्स्थितमेतद् यदुत यमलजननीसदृशः परिवेषकः अवश्यं गीतार्थोऽलुब्धश्च भवितुमर्हति, स चोत्सर्गतो रत्नाधिकोऽपवादतश्चावमरात्निक इति ।
ॐॐ
( १३५ ) तत्र च साधूनां भुञ्जानानां एकैकस्य साधोः पार्श्वे मल्लकं भवति, तत्र श्लेष्म उद्गलयेत् -तस्मिन्मल्लके श्लेष्मनिष्ठीवनं कुर्वन्ति, तथा तत्र भुञ्जतः कदाचित्कण्टको स्थिखण्डं वा भवति, स तत्र क्षिप्यते । अथ तु भुवि क्षिप्यते, अस्थिकण्टकादि, ततो वसतिर्लेपकृता - अनायुक्ता भवति, अतस्तत्परिहारार्थं मल्लकेषु क्षिप्यते । (ओ.नि. ५६६ )
poses only possus pspose(Sereypey lyឡើយនិងប
७०७०७२
सिद्धान्त रहस्य बिन्दुः
1999
१६९