________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ततश्च हस्तगतो मलस्तत्र लगति, तत्संपर्कवशाच्च पानके संमूच्छिमोत्पत्तिसम्भवः, तन्निवारणार्थं पानके न हस्तधावने तु शरीरबकु शता, पानक पलिमन्थः, अधिकपानकावश्यकतया च तदानयनायाऽधिकं पर्यटनं तज्जन्यश्रमादिदोषाश्च भवन्ति ।
तदेवमादिदोषभयाद् वस्त्रेन सुलभेनापि अत्र गालनं नोक्तमिति अनुमीयते । एतत्तु कीटिकादिरहितं कचवरादिमच्च पानकमाश्रित्योक्तम् । यदा तु त्रससम्पृक्तं तत्पानकम् भवति, तदाऽपि वंशपिटकेन शकुनिगृहकेन वा गालनमुक्तम् । यतो हि वंशपिटकादिः स्वयमेवोण्डः भवति, तथा स पानकं न आत्मसात्करोति, ततश्च केवलं त्रसजीवा एव तत्र लगन्ति, वस्त्रं तु स्वयमपि आद्रं भवति, ततश्च तल्लग्नास्त्रसजीवा न झटिति पानकशस्त्रात्पृथग्भूता भवन्तीत्ययमधिको दोषः ।।
तदेवमादि सञ्चिन्त्य ग्रन्थकृता वस्त्रेण गालनं न प्रतिपादितमपि तु त्रसाभावेऽपि पात्रकर्णेन, तत्सत्त्वे च छब्बकादिभिर्गालनं प्रतिपादितमित्यधिकं बहुश्रुता विदन्ति ।
ssoageggagyearsioggage eageggiogrogpeppeggaggiorgeigyaggiopoghargeoggigiogging, (१३४) चित्तं बालादीनां गृहीत्वा पृष्ट्वाऽऽचार्यं मण्डलीस्थविरः प्रविशति, किंविशिष्टः ? इत्यत आह - जमलजणणीसरिच्छो निवेसई-उपविशति
(?परिविशति) मण्डलीस्थविर इति, स च मण्डलीस्थविरो गीतार्थो रत्नाधिकोऽलुब्धश्च भवति । अनेन च पदत्रयेणाष्टौ भङ्गाः सूचिता भवन्ति,
तत्र तेषां मध्ये ये शुद्धाः अशुद्धाश्च तान् प्रदर्शयन्नाह । (ओ.नि. ५६२) Jodi todayikodkoolkootos dodiyokootkooooooooooootos kodioskoolioskositors
चन्द्र. भोजनमण्डल्यां कः सकलसाधुभ्यः भोजनादि परिवेषयति ददातीति यावत्, एतत्प्रत्पिादनार्थं प्रकृतः पाठः स्पष्टः । नवरमष्टौ भङ्गा एते ।
१. गीतार्थः रत्नाधिको अलुब्धः २. गीतार्थः रत्नाधिकः लुब्धः ३. गीतार्थः अरत्नाधिकः अलुब्धः ४. गीतार्थः अरत्नाधिकः लुब्धः ५. अगीतार्थः रत्नाधिक: अलुब्धः ६. अगीतार्थः रत्नाधिकः लुब्धः
७. अगीतार्थः अरत्नाधिक: अलुब्धः ८. अगीतार्थः अरत्नाधिकः लुब्धः லலலலலலலலலலலலலலலலலலலலலலலலலலலல १६८
सिद्धान्त रहस्य बिन्दुः