________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல വിളിച്ചറിയിക്കുന്ന
തായി റിപ്പ
(१२९) ज्ञानादिर्भावः, ज्ञानं दर्शनं चारित्रं च, एतज्ज्ञानादिभावत्रयमभुज्यमाने त्रुट्यति-व्युच्छिद्यते, अत एतेषां ज्ञानादीनां त्रुट्यतां अविच्छिन्नप्रवाहार्थं भुञ्जते, न वर्णार्थं भुज्यते न वर्णो मम गौरवं स्यादित्येवमर्थं, तथा बलं मम भूयादित्येवमर्थमपि न भुज्यते, रूपं मम
भूयाद्, बुभुक्षया क्षीणो = क्षीणगण्डपार्श्वः सन् मांसोपचयेन पूरितगण्डपावो रूपवान् भविष्यामीति नैवमर्थं भुङ्क्ते, नापि विषयार्थं
मैथुनाद्यासेवनार्थं भुङ्क्ते । (ओ.नि.भा. २८०) Sorkeofiroiodio dikoolkodkoshikodiokoi ko dhodios looskay s kodi todkodikodkomkodikosh
चन्द्र. न हि साधव आहारसंज्ञापरवशीभूताः सन्तो भुङ्क्ते, परन्तु कर्मोदयजन्यबुभुक्षया संयमसाधनाविक्षेपपरिहाराय भुङ्क्ते, वर्णाद्यपेक्षया भोजने तु स्पष्ट एवातिचारादिदोषः । एतदेवात्र निगदितम् ।
-
ടുംബജറിയുടുപ്പിച്ചിരിപ്പിച്ചിട്ടും പിടിപ്പിച്ചു. (१३०) गुरोश्च सर्वैरेवोपकर्तुं शक्यते, न त्वेकेन, सूत्रार्थपरिहानेः ।
(ओ.नि. ५५४) ຂໍ້ຍຂໍຍໍ ຄໍຍຂໍຍອ້ງຍໍຂໍຍໍຍອ້ງຍໍຂໍຍໍຍໍຍໍຍອ້ງຍໍຂໍຍໍຍໍຂໍຍໍຕໍwຂໍຍອໍາ
चन्द्र. 'गोचरीमण्डली किमर्थं क्रियते ? किमर्थं साधवः पृथक्पृथगेव न भुञ्जन्ति ?' इत्यस्य समाधानार्थं कारणानि प्रतिपादयन्नेतदाह यदुत यदि गोचरीमण्डली न भवेत्, तर्हि गुर्वर्थं भक्तपानाद्यनयनं कः करिष्यति ? सर्वेषां स्वोचितभक्तपानाद्यानयने व्यापृतत्वात् । यदि च कोऽप्येक एव साधुः सकलं गुरुवैयावृत्यं कुर्यात्, तर्हि स तत्रैवानवरतं प्रवृत्तः सन् सूत्रमर्थं च न शक्नुयाद्ग्रहीतुम्, समयाभावात् । न चैतदिष्टम्, सूत्रार्थयोरत्यावश्यकत्वात् । तस्मात्तथा कर्त्तव्यं यथा सूत्रार्थव्याघातोऽपि न भवेत् गुरोर्वैयावृत्यमपि च भवेदिति । गोचरीमण्डल्यां तु லலலலலலலலலலலலலலலலலலலலலலலலலலலல १६४
सिद्धान्त रहस्य बिन्दुः