________________
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
—
थोवं बहुनिवेसं इइ नच्चा पूयए मइमं ॥
अत्राह परः
,
अथ कः पुनरयं नियम: ? यदेकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति तथैकस्मिन् पूजिते सर्व एव संपूजिता भवन्ति, न चैकस्मिन्संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति ।
आचार्य आह - ज्ञानं दर्शनं च तपस्तथा संयमश्च एते साधुगुणा वर्तन्ते, एते च गुणा यथैकस्मिन्साधौ व्यवस्थिताः, एवं सर्वेष्वपि, एकरूपत्वात्तेषां, यतश्चैवमत एकस्मिन्साधौ हीलिते अपमानिते सर्वेषु वा साधुषु हीलितेषु ते = ज्ञानादयो गुणा: हीलिताः अपमानिता भवन्ति ।
एवमेकस्मिन्पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्तपानादि बहुनिवेसं = बह्वायमित्यर्थः, निर्जराहेतुरिति, तस्मादेवं ज्ञात्वा पूजयेत्साधून्मतिमानिति । (ओ.नि. ५२७ - २८-२९-३०-३१)
७७७०७७०७०७७०७७०७०७०७०७०७०७०७०७०७
=
ជីជី ជី(yeSZSSSSSSSS (វិសាលភា चन्द्र. तथा च सुविहितानां हीलना कदापि न कर्त्तव्या, किन्तु भक्तपानादिभिस्तेषां यथाशक्ति वैयावृत्त्यं कार्यमित्युपदेशः ।
१०१०१०२०१००२७०९७०
सिद्धान्त रहस्य बिन्दुः
ननु एवं सति सुविहितहीलनाकर्तॄणां सर्वेषां प्रत्येकहीलनायामुत्कृष्टस्थितिरसादिबन्ध एव स्यात्, यतो हि सुविहितास्त्रिकालापेक्षयाऽनन्ताः, ततश्चैकस्यापि साधोः हीलनाऽर्थापत्त्याऽनन्तगुणा सञ्जाता, ततश्चैकसाधुहीलनाजन्यकर्मबन्धापेक्ष्याऽनन्तगुण एव कर्मबन्धः स्यात्, स च सर्वोत्कृष्टस्थित्यादिरूप एवेति प्रत्येकहीलनायामेकरूप एव बन्धो भवेत्, न च तारतम्येन । परन्तु एतत्तु अनिष्टमेव, मिथ्यादृगादीनां कर्मबन्धतारतम्यस्यावश्यम्भावात्, सुविहितहीलनायाश्च षष्ठगुणस्थानं यावदतिचारादिरूपतया सम्भवादिति मिथ्यादृगादिषष्ठगुणस्थानान्तानां सर्वेषां सुविहितहीलनायामपि कर्मबन्धतारतम्यावश्यम्भावात् “एकस्मिन्हीलिते सर्वे हीलिता भवन्ति" इत्यादि यदुक्तम्, तत्सर्वं न घटेतेति चेत्
७०७०७०७०७ १५९