________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
न, आधाकर्मभक्षिणोऽनन्तसंसारित्वकथनवत् सम्भावनामात्रोपदर्शनपरत्वादस्य वचनस्य । साधुहीलनायां हि कृतायां क्वचित् परिणामतीव्रतया साधुतत्त्वं प्रत्याशातनभावोदयेन सर्वसाधुहीलनाजन्यकर्मबन्धः सम्भवति । तथा च सम्यकत्वमालिन्यम् । वस्तुतस्तु नयापेक्षिकमिदं वचनम् । तथा हि "एकस्मिन हीलिते पूजिते वा सर्वे हीलिता पूजिता वा भवन्ति" इत्येतद् वचनं व्यवहारनयापेक्षया, कर्मबन्धस्तु निश्चयनयापेक्षया, निश्चयश्च भावग्राहीति जीवाध्यवसायपेक्षयेति । __अयं भावः यथा हि केनचिद् राष्ट्रध्वजे हीलिते सति 'सकलस्यापि राष्ट्रस्य हीलना तेन कृता' इति व्यवहीयते, एवमत्र एकस्मिन्साधौ हीलिते सकलसाधुहीलना व्यवहीयते इति प्रकृतवचनं व्यवहारनयापेक्षमेव । यदा तु तज्जन्यकर्मबन्धविचारणा क्रियते, तदा हीलनाकर्तुर्भाव एवापेक्षितव्यः, तत्तीव्रतायां कर्मबन्धाधिक्यात्, तन्मन्दतायान्तु कर्मबन्धाल्पत्वात् । तथा च मिथ्यादृगादीनां साधुहीलनायां अशुभपरिणामस्य तीव्रत्वात् अधिको बन्धः, सर्वविरतादीनां तु प्रमादादिरूपाशुभपरिणामस्य मन्दत्वात् अल्पो बन्ध इति न कश्चिद् विरोधः ।
Flageggiestasopshayogshesnasaashasoggagedagogsaggioreoggaggagedagopsig
(१२६) वैयावच्चं निययं करेह उत्तमगुणे धरंताणं ।
सव्वं किल पडिवाइ, वेयावच्चं अपडिवाइ । पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए ।
न हु वेयावच्चचिय सुहोदयं नासए कम्मं ॥ लाभेण जोजयंतो जइणो लाभंतराइयं हणइ ।
कुणमाणो य समाहिं सव्वसमाहिं लहइ साहू ॥ वैयावृत्यं नियतं - सततं कुरुत, केषाम् ? उत्तमगुणान् धारयतां साधूनां
कुरुत । शेषं सुगमम् । किञ्च-प्रतिभग्नस्य उन्निष्क्रान्तस्य मृत्स्य वा नश्यति चरणं, श्रुतमगुणनया,
न तु वैयावृत्यचितं - बद्धं शुभोदयं नश्यति कर्म । லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१६०