SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல न, यद्यपि भवदुक्तरीत्या प्रकृतपाठानुसारेण च उष्णोदकपतितं सचित्तं जलं अचित्तं भवतीति सम्भवति । तथाऽपि अनवस्थादिभयात्तद्व्यवहारो न क्रियते प्रायशः, .. कथमनवस्थेति चेत् इत्थम् । हस्तगतं जलं तु नियतपरिमाणमल्पपरिमाणं च, न हि उन्नतभागे शुष्के सति निम्नभागगतजलं कदाचिदल्पं कदाचिदधिकमिति अनैयत्यं तत्र सम्भवति । न वा तत्र बहुपरिमाणं सम्भवति । ततश्च तत्र न दोषः अनवस्थादिकः । उष्णजले पतितं तु सचित्तजलं कदाचिदल्पतमं कदाचिदल्पतरं कदाचिदल्पं कदाचिद् बहु कदाचिद् बहुतरं कदाचिच्च बहुतममित्यनेकविधं सम्भवति । ततश्चाल्पतमजलस्योष्णोदके अचित्तत्वसम्भवेऽपि अल्पतरादीनां तदसम्भवोऽपि सम्भवति । परन्तु यदि अल्पतमे अचित्तत्वव्यवहारः प्रारभेत, तहि परिमाणाज्ञानादि-वशतोऽल्पतरादिष्वपि क्रमशः स व्यवहारो भवन्वारयितुं दुःशकः सञ्जायेत । किञ्च उदकौष्ण्यमपि नैकविधमिति औष्ण्यभेदानुसारेणाचित्तीभवनकालभेदोऽपि सुतरां भवेदेव । एतच्च सर्वं व्यवहारे समवतारयितुं दुःशकं, प्रमादनिष्ठुरतादिदोषजनकं चेति उत्सर्गतोऽधुना उष्णजले पतितं सचित्तजलं न अचित्तीभूतं व्यवहीयमाणं दृश्यते । अपवादतस्तु संविग्नगीतार्थाः तत्तदवस्थाद्यौचित्येन निर्णयं कुर्वन्त्येवेति न तत्र विवादः । soproprogrogropsopropropropsopropropdoprogeoprologropropsopsopropoopsog (१२५) भरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साहू । एक्कंमि हीलियमी सव्वे ते हीलिया हुँति । भरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साहू । एक्कंमि पूइयंमि सव्वे ते पूइया हुंति । - अह को पुणाइ नियमो एक्कंमि वमाणियंमि ते सव्वे । होंति अवमन्निया पूइए य संपूइया सव्वे । नाणं व दंसणं वा तवो य तह संजमो य साहुगुणा । ___एक्के सव्वेसु वि हीलिएसु ते हीलिया होति । एमेव पुइयंमि वि एक्कंमि वि पूइया जइगुणा उ । லலலலலலலலலலலலலலலலலலலலலலலலலலலல १५८ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy