________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
' तत्र
आ। स्थापना 1
अनिम्नोन्नतभाग इति । अयं च स्त्र्यादिहस्तः सप्तभागः विकल्प्यते । स्थापना . सचित्तजलाद्रीभूतेऽपि तस्मिन् ‘कस्मिन्काले कदा भिक्षा गृह्यते' इत्यादिप्रतिपादनपरं प्रकृतवचनं प्रायः सुगमम् । नवरं अबुधजनबोधाय स्पष्टमुच्यते ।
तरुणस्त्रियाः उन्नतसप्तमैकभागे शुष्के सति ग्रीष्मे भिक्षा गृह्यते तरुणस्त्रियाः द्वयोः सप्तभागयोः शुष्कयोः सत्योः हेमन्ते भिक्षा गृह्यते तरुणस्त्रियाः त्रिषु सप्तभागेषु शुष्केषु सत्सु वर्षायां भिक्षा गृह्यते मध्यमस्त्रियाः द्वयोः सप्तभागयोः शुष्कयोः सत्योः ग्रीष्मे भिक्षा गृह्यते मध्यमस्त्रियाः त्रिषु सप्तभागेषु शुष्केषु सत्सु हेमन्ते भिक्षा गृह्यते। मध्यमस्त्रियाः चतुर्यु सप्तभागेषु शुष्केषु सत्सु वर्षायां भिक्षा गृह्यते स्थविरस्त्रियाः त्रिषु सप्तभागेषु शुष्केषु सत्सु ग्रीष्मे भिक्षा गृह्यते स्थविरस्त्रियाः चतुर्षु सप्तभागेषु शुष्केषु सत्सु हेमन्ते भिक्षा गृह्यते स्थविरस्त्रियाः पञ्चसु सप्तभागेषु शुष्केषु सत्सु वर्षायां भिक्षा गृह्यते ।
एवं तावत् त्रिविधां स्त्रियमाश्रित्योक्तम् । एवमेव पुरुषमपि त्रिविधमाश्रित्य वक्तव्यम् । नवरं तत्र तरुणपुरुषे भागद्वयादारभ्य भागचतुष्कं यावत्, मध्यमपुरुषे भागत्रयादारभ्य भागपञ्चकं यावत् स्थविरपुरुषे च भागचतुष्कादारभ्य भागषट्कं यावत् वक्तव्यम् ।
एवमेव नपुंसकेऽपि त्रिविधे वक्तव्यम् । नवरं तत्र तरुणनपुंसके भागत्रयादारभ्य भागपञ्चकं यावत्, मध्यमनपुंसके भागचतुष्कादारभ्य भागषट्कं यावत् स्थविरनपुंसके च भागपञ्चकादारभ्य भागसप्तमं यावत् वक्तव्यम् ।
अत्र प्रकृतविभागकारणं तु इदम् ।।
स्त्रीशरीरं सोष्म भवति, पुरुषशरीरं न सोष्म न शीतमपि तु मध्यमम, नपुंसकशरीरं तु शीतम् । यथायथा शरीरस्योष्णत्वमधिकं, तथा तथा तल्लग्नस्य सचित्तजलस्याचित्तत्वं शीघ्रमेव भवतीति न्यायोऽपि उपयुज्यते । एवमेव ग्रीष्मकालः सोष्मकालः, हेमन्तकालः मध्यमः, वर्षाकालश्च शीतकाल इति यथायोग्यं विभावनीयम् ।
नन्वेवं सामान्यशरीरे संलग्नमपि उदकमल्पकालेनैवाचित्तीभवति, तर्हि शरीरादधिकोष्णे जले कदाचित्सचित्तजलं निपतेत्, तदपि किं न भवति अचित्तं ? इत्थं च वर्षाकाले कदाचिदुष्णजले वर्षाबिन्दवो निपतेयुः, तथाऽपि स्वल्पकालेनैव तेषामचित्तीभवनात् न तत्सकलं जलं परिष्ठापनीयमपि तु स्वल्पकालानन्तरं उपयोज्यमिति चेत् GROOGX2090890050000000000000000000026826290000000020201290000000 सिद्धान्त रहस्य बिन्दुः
१५७