SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல तावदाचार्यदोषेणैवंविधा भवन्ति" इति उक्तम् । तत्रागीतार्थशिष्याणां पृथग्मोचनं गुरोरेव दोषः, शिष्यास्तु गुरुपरतन्त्रत्वात् तथाकरणेऽपि न दोषभाजो भवन्ति । नहि शिष्याणामाशयो दुष्टः, किन्तु “यदेवाज्ञापयेद् गुरुः, तदेव मया कर्त्तव्यम्" इति गुरुपारतन्त्र्यभावाच्छुभादेव ते तथा प्रवर्तन्त इति को दोषस्तेषामिति चेत् । __न, अगीतार्थस्यासंविग्नस्य वा गुरुतया स्वीकरणमेव तेषां शिष्याणां दोषः, न चाज्ञानभृतां तेषां तादृशगुरुस्वीकारे न मनःक्लिष्टताऽस्तीति न तेषां दोष इति वाच्यम् अज्ञानस्यापि दोषत्वानपायात् । किञ्चानासन्नसिद्धिकानामेव प्राय एतादृशगुरुसंयोगो भवतीति तेषां भवितव्यताऽपि अत्र दोषवती भवन्ती केन निषेध्या ? किञ्च यथा कुवैद्यपरतन्त्रो रोगी तद्वचनानुसारेण प्रवर्तमानो नियमाद् अन्तमवाप्नोति, तत्र 'अयं कुवैद्योऽस्ति' इति सम्यग्ज्ञानं भवतु मा वा । एवं कुगुरुपरतन्त्रः शिष्यस्तद्वचनानुसारेण प्रवर्तमानो नियमाद् विनश्यति, तत्र "अयं कुगुरुरस्ति" इति सम्यग्ज्ञानं भवतु मा वा । अत एव संविग्नगीतार्थगुरुगवेषणार्थं सप्तशतानि योजनानि द्वादशवर्षपर्यन्तं पर्यटनमनुज्ञातम् । अत एव च "अगुरौ गुरुतामतिर्मिथ्यात्वम्" इत्युक्तम् । तथा च योगशास्त्रवचनं "अदेवे देवताबुद्धिः, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वम्" इति ।। तस्माद् यद्यपि प्रकृते गुरोरेव स दोषः, यदुत स शिष्यानगीतार्थानेव केवलान् विमुञ्चति, तथापि तादृशगुरुपारतन्त्र्यदोषेण शिष्याणां विनाशो ध्रुवः, न तेषां "वयं तु गुरुपदेशेन प्रवर्तामहे, इति नास्माकं दोषः" इति अभिप्रायमात्रेण दोषमुक्तिरिति हितार्थिना सद्गुरोरेव पारतन्त्र्ये दृढं यतनीयम् । सद्गुरुश्चाधुना जघन्यतोऽपि निशीथचूर्णिविज्ञाता मूलगुणपालकश्चेति, तदधिकज्ञानाभावेऽपि उत्तरगुणशैथिल्येऽपि च सति पञ्चमारकादिकमपेक्ष्य तस्य सुगुरुत्वप्रतिपादनात् । व्यक्तं चैतत्पञ्चाशके इति । ननु अङ्गारमर्दकशिष्याः कुगुरुपरतन्त्रा अपि न विनष्टाः, प्रत्युत कुगुरुपारतन्त्र्यकालेऽपि चारित्रपरिणामवृद्धिभाज आसन्निति न कुगुरुपारतन्त्र्यं विनाशकमिति चेत् । ___न, निपुणतया कुगुरुसद्गुरुलक्षणपरीक्षणेऽपि कुगुरोः तथाविधकपटाद् यदि कुगुरुलक्षणानि न ज्ञायन्ते, सुगुरुलक्षणानि च स्पष्टं दृश्यन्ते, तदा कुगुरौ अपि सुगुरुत्वप्रज्ञामाश्रित्य पारतन्त्र्यं न दोषकारि, प्रमादाभावात् । यदा तु तादृशलक्षणाज्ञानादेव तज्ज्ञानेऽपि वा प्रमादातिस्नेहादिदोषपारवश्यादेव कुगुरौ अपि सुगुरुतामतिः क्रियते, तदा भवत्येव दोषः, अज्ञानादिदोषसद्भावादिति । अत एव अङ्गारमर्दकशिष्यैः कुगुरुलक्षणपरिज्ञानानन्तरं तस्य त्याग एव कृत इति न विस्मरणीयम् । GOOGL020969000000000000000000000002889000000000209960000000 सिद्धान्त रहस्य बिन्दुः १५५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy