________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல repregpoooooooooooppopodpregnenopropooooopropropguagegopgopsig
(१२२) सर्वथा येन केनचित् दोषेण = निमित्तेन यस्य सम्बन्धिना
अयशः = अश्लाघा आयासः = पीडा प्रवचने भवति, अग्रहणं वा विपरिणामो वा श्रावकस्य शैक्षकस्य वा, तन्न कर्त्तव्यम्, तथाऽप्रत्ययो वा शासने येन भवति यदुतैतेऽन्यथा वदन्ति अन्यथा कुर्वन्ति एवंविधोऽप्रत्ययो येन भवति तन्न कर्त्तव्यम् । तथा जुगुप्सा च येनोत्पद्यते यदुत वराकका
एते दयामनस्कास्तदेवंविधं न किञ्चित्कार्यम् । यस्तु पुनरेवं करोति तस्येदमुक्तं भगवता । प्रवचनमनपेक्षमाणस्य तस्य निद्धन्धसस्य = निःशूकस्य लुब्धस्य बहुमोहस्य भगवता संसारोऽनन्त
उक्त इति । तथा न केवलम् बहुमोहस्यैतद्भवति, योऽप्यन्यस्तस्याप्येवं कुर्वतोऽनन्त एव संसारः, एतदेवाह जो जह व तह व लद्धं गिण्हइ आहारउवहिमाइयं ।
समणगुणमुक्कजोगी संसारपवड्ढओ भणिओ। सुगमा । एवं तावज्ज्ञानवतामपि दोषः, ये तु पुनराचार्येण मुण्डितमात्रा अगीतार्था एव मुक्तास्ते सुतरामज्ञानादेव एषणादि न कुर्वन्ति, एतदेवाह
एसणमणेसणं वा कह ते नाहिति जिणवरमयं वा । " कुरिणमिव पोयाला जे मुक्का पव्वईमेत्ता सुगमा । नवरं कुरिणमि = महति अरण्ये पोयाला = मृगादिपोतलकास्ते
इह यूथपतिना मुक्ताः सन्तो विनश्यन्ति एवं तेऽपीति । एवं तावदाचार्यदोषेणैवंविधा भवन्ति । (ओ.नि. ४४५-४४८)
चन्द्र. स्पष्टमेव सर्वं, अतिगभीरचेतसा विभावनीयं चेति । ननु अत्र “ये पुनराचार्येण मुण्डितमात्रा..." इत्यादि अन्ते च "एवं
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १५४
सिद्धान्त रहस्य बिन्दुः