________________
७७७०७
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ெஸ்ஸ்
( १२१ ) स्थापनाकुलानि तथा म्लेच्छगृहं तथा अचियत्तगृहं तथा छिम्पकादिगृहं सूतकोपेतगृहं वा, एतेषु न प्रवेष्टव्यम्, इयं गणधरस्थितिस्ततश्चैतां मर्यादां प्रवेशेनातिक्रामन् विराधयति दर्शनादि । आह प्रतिकुष्टकुलेषु प्रविशतो न कश्चित् षड्जीववधो भवति, किमर्थं परिहार इति ? उच्यते ।
छक्कायदयावन्तोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुर्गुछिए पिंडगहणे य ।
सुगमा, नवरं आहारनीहारौ यद्यगुप्तः सन्करोति जुगुप्सितेषु छिम्पकादिषु यदि पिण्डग्रहणं करोति ततो दुर्लभां बोधिं करोतीति । ननु च ये इह जुगुप्सितास्ते चैवान्यत्राजुगुप्सितास्ततः कथं परिहरणं कर्त्तव्यं ? उच्यते । ये यस्मिन्विषयादौ जुगुप्सिताः प्रव्रज्यामङ्गीकृत्य वसतिमङ्गीकृत्य भक्तं पानं चाङ्गीकृत्य, ते तत्र वर्जनीयाः । (ओ.नि. ४४३ ) បងនៅភាគី5555 ppsspp popuppyp
चन्द्र. तथा च जुगुप्सितकुलानि प्रवचनापभ्राजनानिमित्तत्वेनैव वर्जनीयानि, न तु स्वरूपत एव । अत एव " यस्मिन्विषये तानि जुगुप्सितानि, तस्मिन्विषये तानि वर्जनीयानि" इत्यर्थापत्त्या ज्ञायते यदुत अन्यत्र जुगुप्सितान्यपि तानि यदि अमुकविषयेऽजुगुप्सितानि, तर्हि तत्र ते न वर्जनीयानीति यथा प्रवचनविराधना न भवेत्, तथा प्रवर्तितव्यम् । न त्वन्यतरत्राऽपि एकान्तमतिना भाव्यमिति ।
ܦܗܘܘ
सिद्धान्त रहस्य बिन्दुः
(I) ॐट
७०७०७ १५३