________________
ܢܗܢܗܦܗܦ9999999ܗ9999999ܗ9999
०४७०७
चन्द्र. ग्रामान्तरं भिक्षार्थं गतस्य साधोः 'यदि तत्र साधवः सन्ति', तर्हि को विधिरित्यत्र प्रतिपादितम्, तच्च सुगमम् ।
अत्र हि असाम्भोगिकान्प्रति द्वादशावर्तवन्दनं कर्त्तव्यतया प्रतिपादितमस्ति । एतच्च प्रागेवोक्तं अस्माभिरत्र तु स्मरणार्थं पुनरुपात्तमिति बोध्यम् ।
अत्र साम्भोगिकानसाम्भोगिकांश्च प्रति द्वादशावर्तवन्दनम्, संविग्नपाक्षिकशिथिलान्प्रति वन्दनम्, खग्गूडशिथिलान्प्रति उच्छोभवन्दनं कर्त्तव्यं इति विवेकः ।
ननु साम्भोगिकासाम्भोगिकान् प्रति द्वादशावर्तवन्दनं तावद् युक्तमेव, तेषां संविग्नत्वात् । ये तु संविग्नपाक्षिकाः शिथिलाः, तान्प्रति यद् वन्दनं तत् किंस्वरूपं ? किं द्वादशावर्तवन्दनमुत 'मस्तकेन वन्दामि' इति वचनरूपं वन्दनमुत उच्छोभवन्दनं ? न तावत्प्रथमम्, असंविग्नान्प्रति तस्यानुचितत्वात् । न च द्वितीयं यतो हि संविग्नपाक्षिकाः खग्गूडशिथिलसकाशादभ्यधिकाः, ततश्च यदि खग्गूडशिथिलान्प्रति उच्छोभवन्दनं कर्त्तव्यं प्रतिपादितम्, तर्हि संविग्नपाक्षिकान्प्रति तु तदधिकवन्दनस्यैव कर्त्तव्यत्वं भवेत्, 'मस्तकेन वन्दामि' इति वचनात्मकवन्दनं च उच्छोभवन्दनाद् लघीय:, इति न तत् तान्प्रति कर्त्तव्यं भवेदिति । न च तृतीयम्, तस्यात्रानुक्तत्वात्, खग्गूडशिथिलान्प्रत्येव तस्योक्तत्वादिति वन्दनत्रयस्याप्यत्र असम्भवात् संविग्नपाक्षिकान्प्रति किंस्वरूपं वन्दनं कर्त्तव्यमिति प्रश्नोऽवशिष्यत एवेति चेत्
उच्यते, 'मस्तकेन वन्दामि' इति द्वितीयवन्दनं तान्प्रत्युचितमिति सम्भावयामः । ननु खग्गूडशिथिलापेक्षयाऽधिकानां तेषां तदपेक्षया हीनं वन्दनं कथं कर्त्तव्यतयोचितं भवेदिति चेत्
सत्यम्, यद्यपि असंविग्नत्वात् संविग्नपाक्षिका खग्गूडशिथिलाश्च द्वयेऽप्यवन्दनीया एव, तथाऽपि ग्रामान्तरं गतस्य साधोः व्यवहारौचित्यमपेक्ष्य तान्प्रति किञ्चित्कर्त्तव्यं भवेदिति संविग्नपाक्षिकान्प्रति व्यवहारमात्रार्थं 'मस्तकेन वन्दामि' इति वन्दनं क्रियते । खग्गूडशिथिलाश्च संविग्नान्प्रति स्नेहविरहिताः तावता वन्दनेन कदाचित्कोपं गच्छेयुः, ततश्चानिष्टमपि किञ्चित्कर्तुं प्रयतेयुरिति तन्निवारणार्थं उच्छोभवन्दनं क्रियते । संविग्नपाक्षिकास्तु संविग्नस्नेहपरत्वात् वन्दनाभावेऽपि परितोषमेवाप्नुयुरिति न तान्प्रति उच्छोभवन्दनावश्यकता । इत्थं च गौरवलाघवादिकं सम्प्रेक्ष्य संविग्नपाक्षिकान्प्रति खग्गूडशिथिलापेक्षया हीनमपि वन्दनं नानुचितमिति सम्भाव्यते, तत्त्वमत्रत्यं बहुश्रुतगीतार्थाधीनमिति संङ्क्षेपः ।
७०.७०७७७७७७
१५२
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
सिद्धान्त रहस्य बिन्दुः