________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல गृहाणेति । अकस्मात्तादृशभये समुत्पन्ने सति भिक्षाटनस्थानादेव नंष्टव्यम्, नोपाश्रयागमनाद्यवकाशः, ततश्च यदि सकलोऽप्युपधिभिक्षाटने गृहीतो न भवेत्, तर्हि तं विनैव पलायने कृते संस्तारकाद्यभावजन्या दोषाः सम्भवेयुरिति सकलोऽप्युपधिभिक्षाटनेऽपि ग्राह्य इति भावः ।
ഇരട്ടത്താപ്പിയിട്ടുമുറ്റത്ത (११७) एवं तस्यैकाकिनो गतस्य सतः स्त्रीग्रहणे सति-स्त्रिया गृहीतः
सन् धर्मकथां करोति, यदुत नरकगमनाय मैथुनसेवेत्येवमादिकां, अथ कथितेऽपि धर्मे न मुञ्चति, ततो भणति यदुत व्रतानि गुरुसमीपे स्थापयित्वाऽऽगच्छामीति एतदभिधाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं ततो इहैवापवरके व्रतमोक्षणं करोमीति तत्र च प्रविशति, उल्लम्बनार्थं रज्जु च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमो भवति, मोहनरसो भयेन हीयते, अथैवमपि न मुञ्चति, ततो म्रियत एवेति । (ओ.नि. ४२२) toskolibodilydidodoikoditorikoditodod boltod bol bodio daodlodilodiyodios kodios.
चन्द्र. भिक्षाटने स्त्र्युपद्रवे सति संयमादिरक्षणाय क्रियमाणा यतनाऽत्र प्रतिपादिता, सा च सुगमैव ।
ननु अत्र "गुरुसमीपे स्थापयित्वाऽऽगच्छामि" इत्यादिभणने मृषावादः, व्रतस्थापनस्य पुनरागमनस्य चाकरणात् इति चेत् । ___ स्वरूपहिंसावत् स्वरूपमृषावादोऽपि न दृष्ट इति किं न जानासि, यथा हि सुसाधूनामाधाकर्मादौ श्रावकाणां च जिनपूजनादौ स्वरूपतो हिंसायामपि न वस्तुतो हिंसकत्वम्, एवमेव प्रमत्तयोगाभावे केवलं ब्रह्मव्रतादिरक्षणाभिप्रायेण मृषावादः स्वरूपत एव मृषा, नानुबन्धत इति न साधूनां तया मृषावादविरमणव्रतभङ्गापत्तिरिति ।
ननु तथाऽपि आत्महिंसा जिनशासने प्रतिषिद्धा, दुरन्तभवकारणत्वात्, तत्कथमत्र साऽनुज्ञाप्यत इति चेत् आर्तध्यानादिपारवश्यात्क्रियमाणा सा तथात्वात्प्रतिषिद्धा, महाव्रतराजस्य ब्रह्मचर्यस्य संरक्षणाभिप्रायेण क्रियमाणाऽऽत्महिंसा तु अनुमतैवेति । PO900000999900000000000000000000029999000000000000000000 सिद्धान्त रहस्य बिन्दुः
१४९