________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல Poesmpedesipopregipodergropodgsoosegosmpopropoggegoprdesosop (११५) यदि सङ्घाटकोपेतः सन् भिक्षाटनं न करोति, तत एकाकिन एते दोषाः स्त्रीकृतः श्वजनितः प्रत्यनीकजनितः भिक्षाविशुद्धिरेकस्य न भवति,
तथा व्रतोपघातो भवति, तस्मात्सद्वितीयेन गन्तव्यम् । (ओ.नि.४१३) dodkomikod koi to dikoi dod kodi doodlod dod ko bideojhysidootos dod ko skcy sidos bodidos
चन्द्र. भिक्षाटनार्थं साधुभिः द्विवर्गेण गन्तव्यम्, साध्वीभिश्च जघन्यतोऽपि त्रीभिस्त्रीभिर्गन्तव्यमिति उत्सर्गः । तादृशसङ्घाटकव्यवस्थाभङ्गेन एकाकितया भिक्षाटने क्रियमाणे बहवो दोषाः ।। ___ तथाहि - एकाकिनः स्त्रीकृता दोषा भवन्ति, एकाकिनं दृष्ट्वा साधु कदाचिद् गृह्णीयात् ।
तथा एकाकिनं शुनी उपद्रवेत्, तत्र यदि शुन्यां उपयोगं ददाति, ततः भिक्षादिषु अनुपयोगात् भिक्षाऽशुद्धिः स्यात्, अथ भिक्षायामुपयोगं ददाति, तत आत्मोपघातदोषः, ।
तथा द्वौ साधू भिक्षामटन्तौ प्रत्यनीकस्य दुष्प्रधृष्यतरौ भवतः, एकाकिनं पुनदृष्ट्वा प्रद्विष्टः प्रत्यनीको हन्ति । ___ तथा एकाकी साधुः क्वचित्पाटके भिक्षार्थं प्रविष्टः, तदा समकमेव गृहत्रयान्निर्गता भिक्षा गृह्णतस्तस्य भिक्षाया अशुद्धिः भवति, अभ्याहृतदोषो भवतीति भावः, यत इर्यापथिकां शोधयितुं न शक्नोति भिक्षानयितृणां, अथ तत्रैकां भिक्षां गृह्णाति, यस्यामुपयोगो दत्तः, तत इतरस्य भिक्षाद्वयस्याग्रहणे ते भिक्षादातारः प्रद्वेषं गच्छेयुः, यदुत 'अस्माकमयं परिभवं करोति येन नास्मदीयं गृह्णाति' इति । अग्रहणे च परिहाणिर्भवति भिक्षाया गच्छस्य वा ।
तथा त्रिषु गृहेषु यौगपद्यागतां भिक्षां यदा गृह्णाति, तदा प्राणिवधः कृतो भवति, ततश्च प्रथमव्रतभङ्गः ।
तथाऽसौ एकाकी कौटलं ज्योतिष निमित्तं वा प्रयुङ्क्ते, ततश्चानृतस्य नियमेनैव सम्भवः, यतस्तत्रोपघातकरमवश्यमुच्यते । उपघातजनकं चानृतं, तदुच्चारणे द्वितीयव्रतभङ्गः ।
अथ तत्र गृहे एकाकी प्रविष्टः सन् विक्षिप्तं हिरण्यादि पश्यति, ततश्च तद् गृह्णाति एकाकिनो मोहसम्भवात् ततः स्तैन्यदोषः, ततः तृतीयव्रतभङ्गः ।
तथा विधवा प्रोषितभर्तृका निरुद्धा वा स्त्री एकाकिनं साधुं प्रविष्टं दृष्ट्वा गृहे द्वारं 9990020209090000000202090000000000000000000002900000000 सिद्धान्त रहस्य बिन्दुः
१४७