________________
ஸ்ஸ்ஸ்
മഹാര
( ११४) तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह - भिक्षार्थं वाराद्वयं प्रविशति, एकमकालसंज्ञायाः पानकनिमित्तम्, द्वितीयं भिक्षाचर्याकाले प्रविशतीति । जदि पुण तइयवारं भिक्खायरिअं करेइ, ततो खेत्तं चमढिज्जइ, उड्डाहो य हवड़, जहा णत्थि एएसिं भिक्खहिंडणे नियमो, तम्हा दोण्णिवाराउ हिंडियव्वं, एयं च पुव्वभणियमेव- पुणो पुणो
पविसणे सङ्क्षयकुलाणि चमढिज्जंतित्ति । (ओ.नि.भा. २१३ ) Tesco ployp5555pSuppo55
७०७०७०७०७
ഹാൻ
चन्द्र. कालसंज्ञा नाम सूत्रार्थपौरुषीकरणानन्तरं भिक्षाटनं कृत्वा ततश्च भुक्त्वा यदुच्चारव्युत्सृजनं क्रियते, सा । तदन्यकाले तु प्रातरादौ भवन्ती सा अकालसञ्ज्ञा । ततश्चाकालसंज्ञायां पानकनिमित्तं तदन्यकाले च भिक्षानिमित्तं गृहस्थगृहे प्रविशन्ति साधवः, एवं उत्सर्गतो वाराद्वयं भिक्षार्थप्रवेशो ऽनुज्ञात इति । तदधिकवाराप्रवेशे तु जिनशासनापभ्राजनादिदोषा प्रकृते उक्ताः स्पष्टा एवेति ।
ननु प्रातरुच्चारव्युत्सृजनार्थं पानकनिमित्तं गृहप्रवेशः किमर्थः ? यतः रात्रौ क्षारयुक्तं पानकं उपाश्रये रक्षितमेव, ततश्च तेनैव निर्वाहो भवति । तस्मात्केवलं भिक्षार्थप्रवेश एव न्याय्य:, तदैव पानार्थं पानकमपि ग्राह्यम् । तस्मादुद्वरितं पानकं रात्रौ क्षारयुक्तं कृत्वा रक्ष्यमिति प्रतिदिनमेष एव क्रमः इति चेत्
न, रात्रौ क्षारयुक्तस्यापि पानकस्य रक्षणे परिग्रहदोषसम्भवेन शास्त्रे निवारितत्वात् । किञ्च ग्रीष्मकाले अतीव तृषितः कश्चित्तदेव क्षारयुक्तं पानकं उपाश्रये रक्षितं पिबेदिति षष्ठव्रत भङ्गोऽपि सम्भवेत् ।
तथा पानकरक्षणार्थं तदाधारभूतं किञ्चिद् गृहस्थभाजनमपि परिग्रहीतव्यं स्यात्, तत्रापि अनेके दोषा इति उत्सर्गतः रात्रौ पानकं क्षारयुक्तमपि न परिग्राह्यमिति । अत एवाधुनाऽपि योगोद्वहने तादृशजलस्य परिभोग उत्सर्गतः निषिध्यते । यच्चाधुना सर्वे एव रात्रौ तादृशं पानकं गृह्णन्ति, तत् संविग्नगीतार्थपरम्परायातत्वात् न दुष्टमिति सम्भाव्यते । तथाऽपि तत्र सूर्योदयं यावत् यावज्जलं गच्छेऽवश्यमुपयुज्यते, तावदेव जलं ग्राह्यम्, न तु सूर्योदयानन्तरमपि सकलस्मिन्दिने तदुपयोगः श्रेयान् ।
अत्र बहु वक्तव्यम्, उत्सर्गापवादप्रचुरत्वादस्य, तथाऽपि विस्तरभिया नोच्यते ।
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ் ०७०७७७७७०
१४६
७०७०
७७७०७०७०७०७०
सिद्धान्त रहस्य बिन्दुः