________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல निक्षेपणत्यागो दुःशकः, तर्हि तन्निरावरणं न निक्षेपनीयम्, केनाऽपि अन्योपकरणादिना तदावरणं कर्त्तव्यमितीयं यतना चारित्रातिचाराल्पतापादिकेति ।।
यद्यपि चात्र पूर्वपक्षस्य निराकरणं कृतमेव, तथाऽपि प्रकृताचारस्तु उत्सर्गतोऽभिमत एव, न तत्र कश्चिदपि विवाद इति ।
gopemegepeopropsogsapnagopeopedagogenesiggdagoggaeseagueriesdagogger
(११३) यस्मिन्दिवसे पात्रकं लेपयति, तस्मिन्दिवसे घटग्रीवादीनां प्रत्युपेक्षणं कृत्वा ततश्च गृह्णाति, येन लिप्तं पात्रकं बहिस्तस्यां ग्रीवायां तस्मिन्दिवसे क्रियते । निशायां तु छन्ने तत्पात्रकं कुर्यात् आत्मसमीपे, कृते
च कार्ये व्युत्सर्गः कर्त्तव्यस्तेषां घटग्रीवादीनां तस्मिन्नेव दिवसे, येन परिग्रहकृतो दोषो न भवेत्, अन्यस्मिन्दिवसेऽन्यानि भविष्यन्ति ।
(ओ.नि.भा. २११) hostly tod ipotostostostostostoodyotostostostostostostood tooldostostos __चन्द्र. परिग्रहदोषनिवारणाय घटग्रीवादीनामेकमपि दिवसं यावत् परिग्रहो नानुमत इति प्रकृतपाठाद् ज्ञायते ।
ननु तदानीं घटानामेव प्रभूतोपयोगात्प्रतिदिनं घटग्रीवादि सुलभं आसीत्, ततश्च तत्परिग्रहो निरर्थक एवेति तत्परिष्ठापनमेव युक्तम् । परन्तु यानि वस्तूनि तदानीमधुना वा यस्मिन्काले दुर्लभानि, तानि तु परिगृह्यमाणानि न दोषायेति चेत् शास्त्रोक्तयतनया तथाकरणे तु सत्यम्, तदुल्लङ्घने तु दोषो भवेदेव, अपवादशुद्धेः पुष्टकारणान्वितयतनाऽधीनत्वादिति ।
ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒ सिद्धान्त रहस्य बिन्दुः