________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல elesegiogroggagemergropropriendegopsonierocomproprogodpropgapgoeshe (१०२) तत्र ये ते संयतास्ते संविग्नाश्चासंविग्नाश्च, ये ते संविग्नास्ते मनोज्ञा इतरे - अमनोज्ञाश्च, असंविग्ना अपि द्विविधाः - संविग्नपाक्षिकाः इतरे च - असंविग्नपाक्षिकाः, निर्धर्मा नैव श्लाघन्ते तपस्विनश्च निन्दन्ति । (ओ.नि. २९९) dod ko tod bordiyidio dikod ko kod bosdodkoskylios lodlod iodios lodikodiod deys --चन्द्र. तथा च संविग्नानामेव मनोज्ञामनोज्ञत्वेन द्वैविध्यम्, न तु असंविग्नानामिति न तेषां असाम्भोगिकत्वं कल्पनीयम् । असाम्भोगिकपदं संविग्नस्यैव सम्भवतीति भावः । .
. ननु असाम्भोगिका नाम भिन्नसामाचारीमन्तः, एकसामाचारीरहिता इति यावत् । ततश्चासंविग्ना संविग्नसामाचारीरहिता इति तेषामसाम्भोगिकत्वं घटत एवेति चेत् न, एवं सति गृहस्थादीनां अपि संविग्नसामाचारीरहितत्वादसाम्भोगिकत्वं स्यादिति यत्किञ्चिदेतत् ।
ननु साधुवेषवत्त्वे सति एकसामाचारीरहितत्वमसाम्भोगिकस्य लक्षणमिति न गृहस्थादीनां असाम्भोगिकत्वापत्तिरिति चेत्
न, एतादृशलक्षणस्य शास्त्रेऽनुक्तत्वादर्थापत्त्याऽपि चालभ्यमानत्वात् । स्वमत्यैव लक्षणकरणे तु संविग्नत्वे सति एकसामाचारीरहितत्वमसाम्भोगिकत्वमित्यस्माभिरपि सुवचत्वादिति ।
इत्थं च सातिचारसंयमा निरतिचारसंयमाश्चैवं द्वौ भेदौ यथा विरतिमतामेवेति अविरतानां निरतिचारसंयमाभावात्सातिचारसंयमो न वक्तुं शक्येत, तेषां विरत्यभावात्, विरतिमतामेव चान्यतरसंयमसद्भावात् । तथैव साम्भोगिका असाम्भोगिकाश्चैवं द्वौ भेदौ संविग्नानामेवेति असंविग्नानां साम्भोगिकत्वाभावात् असाम्भोगिकत्वं न वक्तुं शक्यते, तेषां संविग्नताऽभावात्, संविग्नानामेव च साम्भोगिकासाम्भोगिकान्यतरत्वसम्भवादिति निश्चयम् ।
ജർമനസ്സിന്റെ തിളപ്പിക്കുമായിരിക്കും ഇപ്പർമാർക്കറ്റില്ല. (१०३) संयत्यापातं तु एकान्तेनैव वर्जनीयम् । (ओ.नि. ३०४) youpotosporipodootosbosinodromoditod chootkomchoodyslroo koood thodiyos
चन्द्र. यत्र संयत्यः उच्चारप्रश्रवणव्युत्सृजनार्थमागच्छन्ति, तत्र संयतैरेकान्तेन न गन्तव्यमिति ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १३८
सिद्धान्त रहस्य बिन्दुः