________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
एवमेव भ्रमरगृहेऽपि सम्भवेत्, यदि तत्सत्का मृद् कस्मात्स्थानाद् भ्रमरेणानीतेति ज्ञातं भवेत् । परन्तु भ्रमरेण तु 'सा कस्मादानीता, अनेकेभ्यो वा स्थानेभ्य आनीता' इति ज्ञानाभावात् तस्याः स्वस्थानमेवाज्ञातमिति तस्याः कुत्रचित्स्थापनं न युक्तम् । यदि हि भ्रमरगृहमृद् यस्मिन्कस्मिंश्चित् स्थाने स्थाप्येत, तर्हि स्वपरकायशस्त्रेण तस्याः विराधनमधिकं स्यादिति तत्र प्रहरत्रयं प्रतीक्षणं युक्तम् । एतेन उभययोरपि प्रश्नयोः समाधानं प्रतिपादितं भवति । तथापि द्वितीयप्रश्ने किञ्चिदधिकमुच्यते । यद्यपि मृद् उदकबिन्दवश्च उभौ अपि स्थावरकायौ, तथाऽपि पृथ्व्याः संहननं बलिष्ठमिति तत्प्रमार्जनेऽपि सङ्घट्टनादिकमेव भवेत्, न तु सर्वथा सर्वपृथ्वीजीवानां व्यापादनम्, उदकबिन्दूनां तु मृदुसंहननत्वात् प्रमार्जनेन प्रायो व्यापादनमेव भवेत् । तस्मात् उदकबिन्दूनां स्वस्थाने तत्रैव विद्यमानेऽपि सति तत्र तेषां स्थापनमधिकविराधना-प्रयोजकत्वान्निषिध्यते । किञ्च यदि प्रभूतं सचित्तं जलं भवेत्, तर्हि तदस्पृष्ट्वा धारया तस्य स्वस्थाने स्थापनं कर्तुं शक्येत, उदकबिन्दूनां तु धारया स्थापनमशक्यमेव, धाराया एवासम्भवात् । प्रमार्जनेन स्थापनं अपि तेषामशक्यमिति अनुभवसिद्धमेवेति तेषां स्वस्थाने स्थापनमत्र नोक्तमिति सूक्ष्मप्रज्ञया विचारणीयमेतत्तत्वम् ।
शेषं सर्वं सुबोधमिति न विव्रियते ।
sapproppoggaggappsappoggagedogrseenaggappageopedagoggagrapgagedgroggopeace
(१०१) तत्पात्रकं भुव उपरि कियटूरे प्रत्युपेक्षणीयमित्यत आह चतुर्भिरङ्गलैर्भुव उपरि धारयित्वा प्रत्युपेक्षणीयं, मा भूत्यतनभङ्गभयं
स्यादिति । (ओ.नि. २९५) Serikodko lodkodositos koditorikolodkoolord ko sidyalo kositos dodkoskootostos.
चन्द्र. स्पष्टम्, अस्मादेव कारणात् साधोः उर्ध्वस्थानेन भोजनं पात्रकादिलुञ्छनं च प्रतिषेध्यमिति बोध्यम् ।
-
ஷவை ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः
१३७