________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ഉമ്മർ
(९२) प्रत्युपेक्षणां कुर्वन्मिथः कथां मैथुनसम्बद्धां करोति जनपदकथां वा, प्रत्याख्यानं वा श्रावकादेर्ददाति, वाचयति कञ्चित्साधुं पाठयतीत्यर्थः, स्वयं वा प्रतीच्छति, आत्मना वाऽऽलापकं दीयमानं प्रतीच्छति-गृह्णाति, एतच्च वक्ष्यमाणं कुर्वन्षण्णामपि जीवनिकायानां विराधको भवति ।
___ (ओ.नि. २७३) இரக் கரம் இருக்கும் அரும் மேல் கால்மேல் கால் மேல் மேல் கால் மேல் திருகோல் மேல் தரும் மேல் படும் பல்gேes
चन्द्र. अत्र च प्रत्युपेक्षणाकरणवेलायां श्रावकादीनां प्रत्याख्यानप्रदानमपि निषिद्धमिति ध्येयम्
ननु 'प्रत्युपेक्षणाकरणवेला' इति अस्य कोऽर्थः, असत्कल्पनया दश वस्त्राणि प्रतिलेखनीयानि सन्ति, तत्र किं प्रथमादारभ्य दशमवस्त्रप्रतिलेखनं यावत्सर्वोऽपि काल: प्रतिलेखनाकरणवेला उच्यते ? किं वा प्रथमवस्त्रप्रतिलेखनप्रारम्भात्प्रथमवस्त्रप्रतिलेखनसमाप्ति यावत् यः कालः स प्रतिलेखनाकालः, एवं द्वितीयतृतीयादिष्वपि वक्तव्यम्, ततश्च प्रथमवस्त्रप्रतिलेखनसमाप्तेः द्वितीयवस्त्रप्रतिलेखनप्रारम्भस्य च मध्ये यः कालः, स न प्रतिलेखनाकालः ततश्च तत्र प्रत्याख्यानदानादीनि कर्तुं शक्यन्ते । किं वा एकस्यापि वस्त्रस्य प्रतिलेखनमर्धसमाप्तमपि स्थगयित्वा प्रत्याख्यानदाने न दोषः, प्रतिलेखनक्रियायां वर्तमानायामेव प्रत्याख्यानदाने दोषः, न तु अन्तराले एव तां स्थगयित्वा तथाकरणे दोष इति त्रयोऽत्र विकल्पाः, कतमः श्रेयान् इति चेत्
तृतीयविकल्पस्तु अनवस्थादिदोषापादकत्वादुपेक्षणीय एव । उत्सर्गतस्तु प्रथमो विकल्प आदरणीयः, कारणे सति द्वितीयविकल्पोऽपि कथञ्चिददुष्ट एवेति । ___ अत्र षड्जीवनिकायविराधना सम्भावनामाश्रित्य दृष्टव्या, न तु सा सर्वथा सर्वत्र प्रतिलेखनप्रमत्तस्य भवत्येवेति नियमः । कर्मबन्धस्तु षड्जीवनिकायविराधनायां सत्यामसत्यां वा यथाऽध्यवसायं भवतीति ।
ஒவைஷஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒ सिद्धान्त रहस्य बिन्दुः
१२५