SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல न युक्तोऽयं भवत्पक्ष" इति। अनेनैतद् ज्ञायते यदुत तादृशोपाश्रये यद्यपि हस्तरेखा न दृश्यन्ते, तथाऽपि प्रतिलेखना कर्तव्यैवेति ग्रन्थकृतामभीष्टम् । यदि हि तदा सान्धकारत्वात् प्रतिलेखना नेष्टा स्यात्, तहि ग्रन्थकृता प्रतिपादिते मतेऽपि स एव दोष आपद्येत, यदुत 'सूर्योदये सत्यपि सान्धकारोपाश्रये रेखाणामपि अदृश्यमानत्वाद् भवताऽपि तदा प्रतिलेखना न करणीया' इति । यदि चेदमुत्तरं प्रदीयेत यदुत प्रत्युपेक्षणासमाप्त्यनन्तरमेव सूर्योदयो यथा भवेत्तथा कर्त्तव्यम्, परन्तु सान्धकारे तु सति विलम्बोऽपि अस्माकमभिप्रेत इति । तदा तु चतुर्थासत्पक्षेणापि एतद् वक्तुं शक्यमेव यदुत "हस्तरेखादर्शनसमय एव प्रतिलेखनं कर्त्तव्यम्, परन्तु यदि सान्धकारे प्रतिश्रये सत्यपि सूर्योदये रेखा न दृश्यन्ते, तदा विलम्बोऽप्यस्माकमिष्ट" इति । ततश्च ग्रन्थकृतामिदमभिप्रेतं यदुत "प्रतिलेखनासमाप्त्यनन्तरं यथा सूर्योदयः स्यात्, तथा प्रतिलेखना कर्त्तव्या, तत्र प्रतिश्रयः सान्धकारो भवतु, निरन्धकारो वा" इति । यद्यपि प्रतिलेखनं प्रकाशे एव सम्भवति, सान्धकारत्वे तु प्रतिलेखनं न नाममात्रादन्यद् किञ्चिदपि । तथाऽपि प्रतिपादितविधौ प्रायः प्रकाश एव भवति, कदाचित्सान्धकारत्वे सत्यपि प्ररूढा सामाचारी तथैव परिपालनीया, अन्यथा हि सान्धकारत्वस्यापि प्रतिव्यक्त्यपेक्षयाऽनेकभेदसम्भवात् गच्छे कलहावकाशः स्यात् । निरन्धकारत्वं वर्ततेऽधुना, ततश्च प्रतिलेखना प्रारब्धव्या इति केनचिदुक्ते अद्यापि सान्धकारत्वमेव, तस्मान्न प्रारब्धव्या इत्यन्येनोक्ते कषायोदयसम्भवादिति । ननु 'शेषं पक्षत्रयं सान्धकारत्वादेव दूषितमेवावगन्तव्यं' इति वृत्तिवचनाद् ज्ञायते यदुत वृत्तिकृतः 'यत्रान्धकारः तत्र न प्रतिलेखनाकरणं' इत्येवाभिमतम् । ततश्च भवदुक्तं कथं सङ्गतं स्यादिति चेत् न, शेषपक्षत्रयस्य सर्वदा सान्धकारत्वादेव दूषितत्वम्, सिद्धान्तपक्षस्य तु कदाचिदेव सान्धकारत्वात्, तत्र च नियतसमयानुष्ठानानां विलम्बे विशेषप्रयोजनाभावात्, प्रत्युत प्रतिलेखनकालनियामकस्य असम्भवत्त्वापत्तेः स्फुटा एव कलहादिदोषा इति प्रायः प्रकाशापेक्षः प्रतिलेखनासमाप्त्यनन्तरकाले यथा सूर्योदयो भवति, तथा प्रारब्धव्या प्रतिलेखना इति सिद्धान्तपक्ष एव श्रेयान्, सूर्योदयस्य प्रतिलेखनासमाप्तिनियामकत्वसद्भावादित्यलं विस्तरेणेति । லலலலலலலலலலலலலலலலலலலலலலலலலலலல १२४ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy