________________
७०७०७०७०७०७
प्रथमं कृत्वा ततः प्रत्युपेक्षणा क्रियते २ अन्ये त्वाहुः परस्परं यदा मुखानि विभाव्यन्ते, तदा प्रत्युपेक्षणा क्रियते ३, अन्ये त्वाहुः- यस्यां वेलायां पाणिरेखा दृश्यते, तस्यां वेलायां प्रत्युपेक्षणा क्रियते, ४ । सिद्धान्तवाद्याह - एते सर्वे एव अनादेशाः - असत्पक्षाः, यतः अन्धकारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न दृश्यन्ते तस्मादसत्पक्षोऽयम्, शेषं पक्षत्रयं सान्धकारत्वादेव दूषितमेव द्रष्टव्यम्, तत्कस्यां वेलायां प्रत्युपेक्षणा कार्या ? इत्यत आह
'मुख' इति मुखवस्त्रिका 'रय इति रजोहरणं 'निसिज्जा' रजोहरणस्योपरितनपट्टो 'चोले ति चोलपट्टकः, 'कप्पतिगंति एक औणिको द्वौ सौत्रिकौ, 'दुपट्टत्ति' संस्तारकपट्ट उत्तरपट्टश्च 'थुइ 'त्ति प्रतिक्रमणसमाप्तौ ज्ञानदर्शनचारित्रार्थं स्तुतित्रये दत्ते सति एतेषां मुखवस्त्रिकादीनां प्रत्युपेक्षणासमाप्त्यनन्तरं यथा सूर्य उद्गच्छति, एष प्रत्युपेक्षणाकालविभाग इति । (ओ.नि. ६९ ) 5555555មថ្មី និង Sess
७७७०
चन्द्र. प्रातः प्रतिलेखनाकालनिरुपणं प्रायः सर्वं स्पष्टम् । नवरं किञ्चिदुच्यते । अत्र चत्वारोऽसत्पक्षाः उपपादिताः । तत्र प्रथमः प्रभास्फुटनसमये प्रतिलेखनाकरणप्रतिपादकः, द्वितीयः यदा प्रभा स्फुटिता भवति, तदा प्रतिलेखनाकरणप्रतिपादकः, ततश्च प्रथमादयं विशुद्धः, तृतीयः परस्परं मुखावलोकनकाले प्रतिलेखनाकरणप्रतिपादकः, ततश्च स द्वितीयाद् विशुद्धतरः, चतुर्थ: हस्तरेखादर्शनकाले प्रतिलेखनाकरणप्रतिपादकः, हस्तरेखादर्शनं च परस्परमुखदर्शनोपयोगि-प्रकाशादधिकप्रकाशे सत्येव सम्भवतीति स तृतीयाद् विशुद्धतमः । वृत्तिकृत्तु चतुर्थमेवासत्पक्षं खण्डयति, ततश्च ततोऽविशुद्धा अन्ये त्रयेऽप्यसत्पक्षा स्वयमेव निरस्ता भवेयुरिति ।
तत्र हस्तरेखादर्शनपक्षखण्डनायेयं युक्ति: प्रदत्ता ग्रन्थकृता यदुत "सान्धकारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न दृश्यन्ते" इति । अस्याश्चायं भावार्थ: "यदि हि हस्तरेखादर्शनसमये एव प्रतिलेखना कर्त्तव्या स्यात्, तर्हि कदाचिदुपाश्रयस्य सान्धकारत्वादुद्गतेऽपि सूर्ये हस्तरेखा न दृश्यन्ते, ततश्च भवदुक्तरीत्या तत्प्रतिलेखनं सूर्योदये सत्यपि अकर्त्तव्यं स्यादिति
१०१०१०१०
सिद्धान्त रहस्य बिन्दुः
२०७०७०७
१२३